०७ भोजनान्तेप्राचीनावीती

भोजनान्तेप्राचीनावीती तृप्ताःस्थेतिविप्रान्पृष्ट्वातृप्तास्म इति प्रत्युक्तौगायत्रीमधुवाता इति तृचमक्षन्नमीतिचश्रावयित्वा

अथवाक्षन्नमीत्येतदन्तेतृप्तिप्रश्नंकृत्वाश्राद्धंसंपन्नमितिपृष्ट्वासुसंपन्नमित्युक्तः ।

परिवेषणकालेनुद्धरणेऽधुनापिण्डार्थसर्वान्नादुद्धृत्यविकिरार्थचोद्धृत्य अन्नशेषैश्चकिंकार्यमितिपृच्छेत्तुसद्विजान् ।

ते इष्टैःसहभोक्तव्यमितिप्रत्युक्तिपुर्वकम् १ प्रदद्युःसकलंतस्मैस्वीकुर्युर्वायथारुचि ।

कातीयैस्तुतृप्तानज्ञात्वावक्ष्यमाणप्रकारेणविकिरंदैवेपित्र्येचदत्वाविप्रेभ्यःपितृपुर्वकंसकृदपोदत्वागायत्रीमधुमतीश्च

श्रावयित्वातृप्तिप्रश्नःसंपत्तिप्रश्नश्चकार्यः एवं शाखान्तरेप्युत्तरापोशनत्पूर्वमेवविकिरेदानम् बह्वृचानांतुपिण्डान्ते

एवविकिरः हिरण्यकेशीयैराचान्ते उक्तः ॥

तत उच्छिष्टभाग्भ्योन्नंदीयतामित्युक्ताविप्राःपात्रस्थंभुक्तशेषंदैविकंदक्षिणे पैतृकंवामेवहिःकृत्य

पितृपुर्वदत्तमुत्तरापोशनममृतापिधानमसीतिकुर्युः पिण्डदानंत्वाचान्तेष्वनाचान्तेषुवाविप्रेषुकार्यम्

विप्राश्चमुखप्रक्षालनपूर्वहस्तप्रक्षालनादिशरावादौकुर्युर्नकांस्यताम्रपात्रयोःशुद्धोदकेनाचम्यकयान इति तृचंजपेयुः ॥