०२ पाणिहोमप्रकारः

अथपाणिहोमप्रकारः तत्र विप्रपानावग्नौकरणंकरिष्ये इति प्रश्नः

क्रियतामित्यनुज्ञा करिष्ये इति प्रश्नेकुरुष्वेत्यनुज्ञा नभवतीतिसर्वत्राश्वलायनमतम्

कातीयादीनांतुभवत्येव आश्वलायनसूत्रवृत्तौतुपाणिहोमेकथमपिप्रश्नःप्रतिवचनंचनकार्यमितिद्योतितम्

सदर्भपित्र्यविप्रपाणीसव्येनपरिसमुह्यपर्युक्ष्यमेक्षणेनकरेनवापूर्ववदाहुतिद्वयं

सोमायेत्यादिमंत्राभ्याप्राचीनावीत्येवजुहुयात तत्रकरेणहोमपक्षेवामहस्तेन

दर्भेणदक्षिणकरे उपस्तीर्यदक्शः इणेनद्विरवदायवामेनाभिघार्यचतुरवत्तित्वादिसंपाद्यम्

बह्वृचानांसर्वपित्र्यकरेषुहोम एकोद्दिष्टविप्रकरेहोमःकृताकृतः होमान्ते सव्येनपरिसमूहनोक्षणे

पाणिहोमेमेक्षणानुप्रहरणंन केचित्पाणीहोमेपरिसमूहनादिकंमेक्षणंचनेच्छन्ति

विप्राश्चपाणिहुतान्नं कर्त्रादेवपूर्वसव्येनैवामासुपक्वमितिमन्त्राभिधारितेस्वस्वपात्रेसंस्थाप्य

भोजनस्थानादन्यत्राचम्ययथास्थानमुपविशेयुः

अग्नौकरणशेषंपिण्डार्थमवस्थाप्यपित्र्यपात्रेष्वेवसर्वान्नपरिवेषणान्तेपरिषणीयम्

केचिदग्नौकरणशेषपरिवेषणोत्तरंसर्वान्नपरिवेषणमाहुः अग्नौकरनशेषंदेवपात्रेषुनदेयम्

कातीयानांतुसाग्नीनामग्नौहोमेदेवपूर्वसर्वपात्रेषुशेषदानम्

निरग्नेर्देवविप्रकरेहोमेपितृपात्रेष्वेवपित्र्यकरेहोमेदेवादिसर्वपात्रेषुहुतशेषदानामितिकाशिका

अन्नंपाणौहुतंयच्चयच्चान्यत्परिवेषितम् । एकीकृत्यैवभोक्तव्यंपृथक्‌भक्षोनविद्यते १

बौधायनानांतुपाणिहुतेन्नेभक्षितेन्यान्नपरिवेषणमुक्तम् ॥

अथपूर्वोक्तवद्देवपूर्वघृताभिघारितपात्रेषुपूर्वोक्तहविष्यान्नपरिवेषणंस्वयंपत्नीवान्योवाकुर्यात्

नापवित्रेणनैकेनहस्तेनचविनाकुशम् । नायसेनापिपात्रेणश्राद्धेषुपरिवेषयेत् १

व्यञ्जनादिकंपर्णाद्यन्तर्हितहस्तैर्देयम् दर्व्यादेयंघृतंचान्नंसमस्तव्यञ्जनानिच ।

उदकं चैवपक्वान्नंनोदर्व्यातुकदाचन १

हस्तदत्तंतुनाश्नीयाल्लवणव्यञ्जनादिकम् अपक्वं तैलपक्वं चहस्तेनैवप्रदीयते २

घृतादिपात्राणिभूमौस्थापयेन्नभोजनपात्रे ओदनेपरमान्नेचपात्रमासाद्यतत्रघृतपूरणेरुधिरतुल्यता

पङ्क्तौविषमदातुश्चनिष्कृतिर्नैवविद्यते । सर्वदाचतिलाग्राह्याःपितृकृत्येविशेषतः १

भोज्यपात्रेतिलान्दृष्ट्वानिराशाःपितरोगताः ।

हिङ्गुशुण्ठीपिप्पलीमरीचकानिशाकादिसंस्कारार्थान्येवनतुसाक्षाद्भक्षयेत् परिवेषनकाले

एवतत्सर्वप्रकारमन्नंपिण्डार्थपिण्डपात्रेपरिषिणीयामितिसागरे ।