०१ होमप्रकारः

अथहोमप्रकारः बह्वृचानांव्यतिषङ्गपक्षेऽग्नावग्नौकरणंकरिष्ये

इति पृष्ट्वाक्रिया अमिति अनुज्ञातोगृह्यपक्वं चरुमुद्धृत्यद्विधाविभज्यापसव्येनोत्तरभागादवदानसंपदामेक्षणेऽवदायसोमायपितृमतेस्वधानमः

सोमायपितृमत इदंनममेतिहोमत्यागौकृत्वादक्षिणभागात्पुनस्तथैवावदायाग्नये

कव्यवाहनायस्वधानम इति होमत्यागौकुर्यात् सव्येनापसव्येनवामेक्षणमग्नावनुप्रहरेत्

यद्वा सव्येनस्वाहान्तोक्तमन्त्रेणाहुतिद्वयंसोमाग्न्योर्व्यत्यासेनादाय जुहुयादिति

कातीयानांतुगृह्येश्रपणमकृत्वैवपचनाग्निपक्वमन्नमादायघृताक्तंकृत्वापूर्ववत्प्रश्नानुज्ञानन्तरंस्मार्ताद्यग्निंपरिस्तिर्यतिस्त्रःसमिध

आधायसव्येनाग्नयेकव्यवाहनायस्वाहासोमायपितृमतेस्वाहेतिमेक्षणेनाहुतिद्वयंजुहुयापादपसव्येनवापाणिहोमेपीत्थम एवप्रकार ऊह्योविशेषसुक्तः आपस्तम्बानातु आज्यभागान्ते उद्धियतामन्गौचक्रियतामितिप्रश्नेकाममुद्धियतामिति अनुज्ञानम्

हिरण्यकेशीयानामुद्धरिष्याम्यग्नौकरिष्यामीतिप्रश्नः

यन्मेमातेत्यादिमन्त्रैःसप्तान्नाहुतयःषडाज्याहुतय इति त्रयोदशाहुतयः

मन्त्रास्तु विस्तरभयान्नोक्ताः हिरण्यकेशीयानामाज्यभागान्तेसोमायपितृमते

इत्यादिषोडशमन्त्रैःषोडशाज्याहुतयः षोडशान्नाहुतयश्चप्रतिपार्वणंबोध्याःमन्त्रेषुपित्रादिपदोह आज्यान्नपदयोरूहश्च

तदग्रन्थेष्वेवज्ञेयोतिविस्तृतत्वान्नोच्यते ॥