५९ अग्नौकरणम्

अथाग्नौकरणम् तच्चाश्वलायनानांगृह्याग्निमतांव्यतिषङ्गेणश्राद्धप्रयोगेगृह्याग्निपक्वचरुणागृह्याग्नावेवकार्यम्

व्यतिषंगाभावेपाणिहोमः श्रौताग्निमतांदर्शेव्यतिषङ्गंभावात्पाणिहोम एवपूर्वेद्युनरष्टक्ययोर्दक्षिणाग्नौश्रपणंहोमश्च

निरग्निकानांतुसर्वत्रपाणिहोम एव आपस्तम्बादीनाश्रौताग्निमतां सर्वाधानिनांदक्षिणाग्नौ अर्धाधानिनांगृह्याग्निमात्रवतांचगृह्याग्नावेव

प्रवासस्थानांनिरग्निकानांच अयाश्चाग्नेमनोज्योतिरुब्दुघ्यव्याह्रतिहोमेनोत्पादितेलौकिकाग्नौहुत्वाग्नेरुत्सर्गः नत्वेषांक्कापिपाणिहोमः

पाकस्तुसर्वत्रपचनाग्नावेवकातीयानांगृह्याग्निविह्रतपचनाग्नौपाकोग्रौकरणंतुगृह्याग्नावेव

श्रौताग्निमतांसर्वाधानपक्षेदक्षिणाग्नावर्धाधानपक्षे औपासनाग्नावितिकाशिकायामुक्तम्

कातीयानामर्धाधानपक्ष एवयुक्त इति भाति निरग्निनांकतीयानामपसव्यादिनापित्र्यादिद्विजहस्त एवाग्नौकरणम्

तत्रपक्षद्वयम् देवद्विजकरे एवसव्येनहोमः

यद्वा ऽपसव्येनपित्र्यद्विजपङ्क्तौप्रथमद्विजकरे इति बहृचानांतुपित्र्यद्विजकरेष्वेवप्रतिविप्रहोमः

वाजसनेयिनांत्वेकहोम एवेतिश्राद्धकाशिकायांकातीयसूत्रवृत्तौ

केचित्तुपृष्ठोदिविविधानेनाग्निमुत्पाद्याग्नावेवजुह्वतिसामगादीनांसाग्नीनामग्नावग्नेरसन्निधानेदैवकरेपित्र्यकरेवानिरग्नीनांतुदेवद्विजकर एव मृतभार्यस्यापत्नीकस्यप्रथमेवद्विजकर एवहोमोनपित्र्ये इति सर्वसाधारणम् ॥