५७ अथर्ववेदिनां

अथर्ववेदिनां प्रपितामहादिपित्रन्तंप्रातिलोभ्येनसर्वःप्रयोगः

ततःसन्त्वर्घ्या इति प्रत्युक्तोऽपोदत्वापात्रस्थंपवित्रंविप्रहस्तेषुदत्वाप्रथमपात्रोदकंसशेषंखङ्गपात्रेपात्रान्तरेवा

गृहीत्वापित्रंरितंते अर्घ्यपितामहेदंते अर्घ्यमित्यादियथालिङ्गप्रत्येकमर्घ्यंदेयम्

पित्रादित्रयाणामेकविप्रत्वेत्रिभिःपात्रैरेकस्यैवहस्तेर्घ्यदेयम् षण्णामेकविप्रत्वे

षट्‌पात्राण्येकहस्ते पितुःस्थानेविप्रयादिपक्षे एकार्घ्यविभज्यतेषुदेयम्

अर्घ्यान्तेजलदानंपितरिदंते अर्घ्यमित्यर्घ्यमन्त्रश्चप्रतिविप्रमावर्तते एवं पितामहादिव्प्रेष्वपि

एवमर्घ्यंदत्वाविप्रहस्तात्स्रवन्तीरपोयादिव्या इति मन्त्रेणप्रतिविप्रमनुमन्त्रयेदितिबह्णृचः

अन्यशाखिनांतुयादिव्या इति मन्त्रेणार्घ्यदानम् अर्घ्यदानान्तेप्रतिविर्पमपोदानम्

तथाचैकविप्रत्वेनुमन्त्रणमपोदानंचान्तेसकृदेव विप्रभेदेत्वावर्तते अर्घ्यदानेनामगोत्राद्युच्चारोनक्रियते

श्राद्धसागरकारैस्तुकार्य इति युक्तंभातीत्युक्तम् ॥

अथशेषजलयुतप्रथमार्घ्यप्रात्रेपात्रद्वयस्थशेषोदकमेकीकृत्यतेनजलेमुखाञ्जनंकार्यम् ।

आयुःकामेननेत्रसेचनंकार्यम् संस्त्रवान्त्समवनीयेत्याद्याश्वलायनसूत्रात

केचिद्विप्रहस्तगलिताम्बुंसंस्त्रावस्तस्यैकीरणमाहुः

दर्शादौमातामहपात्रोदकेतत्पात्रद्वयोदकंसमवनीयमातामहपात्रोदकंपितृपात्रस्थसंस्त्रावेसंनयेत्

मातृपार्वनभेदेमातामहपात्रसमवनीतोदकंमातृपात्रस्थसमवनीतोदकेतदुदकंपितृपात्रस्थैकीकृतोदक इति

तत्संस्त्रावपात्रंदैविकविकविप्रादुत्तरतोरत्निमात्रेप्रोक्षितेदर्भेषुन्यब्जंसकूर्चपितृभ्यःस्थानमसीत्यासादयेत्

यद्वा प्रथमपात्रमुत्तानंसंस्त्रावोदकसहितंमन्त्रेणासाद्यतृतीयपात्रेणसकुर्चपवित्रंतदाच्छादयेत्

पक्षद्वयेपिगन्धादिनाभ्यर्च्यासमाप्तेर्नचालयेन्नचस्पृशेत् ॥

कातीयास्तुशुन्धन्तामितिभूमिप्रोक्ष्यपितृषदनमसीतिकुशानास्तीर्यापितृभ्यः

स्थानमसीतिप्रथमंन्युब्जंकृत्वागन्धादिदीपान्तैरचन्ति ॥