४६ अर्घ्यकल्पनाः

तत्रपात्राणिहैमंरौप्यंताम्रमयंवादारुजंवापलाशादिपर्णमयंवाकांस्यंवाशङ्खशुक्तिजंवाखङ्गपात्रंवार्घ्यपात्रंप्रशस्तम्

अत्रविप्रैकत्वद्वित्वचतुष्ट्यत्वादावपिदैवर्घ्यपात्रद्वयमेव यत्तुदैवेद्वे

अर्घ्यपात्रेपित्र्येत्रीण्युभयत्रैकैकंवेत्यकपात्रत्वपक्षान्तरंतदशक्तिपरम्

एवं पात्रद्वयंप्रोक्षितायांभुविप्रागग्रकुशेषुन्युब्जमुतानंवासाद्यप्रोक्ष्यन्युब्जपक्षे

उत्तानीकृत्यतयोर्द्विकुशेद्वेद्वेपवित्रेनिधायशंनोदेवीरितिमन्त्रावृत्त्याऽप आसिच्ययवोसीतिमन्त्रेणावृत्त्या

यवानोप्यतूष्णी गन्धपुष्पाणिक्षिपेत् केचिद्गन्धद्वारां औषधीःप्रतिमोदध्वमित्यृग्भ्यांगन्धपुष्पाणिक्षिपन्ति

देवार्घ्यपत्रेसंपन्ने इत्युक्त्वा सुसंपन्ने इति प्रत्युक्तोवामकरंविप्रदक्षिणजानुनिन्यस्यामुक

विश्वान्देवान्भवत्स्वावाहयिष्ये इति पृष्ट्वाहयेत्यनुज्ञातो विश्वेदेवास

आगतेत्यृचाप्रतिविप्रंदक्षिणपादादियुग्मक्रमेणजान्वं समूर्धान्तंयवान्विकरेत्

विश्वेदेवाःशृणुतेत्यृचोपस्थायभूमौशिष्टान्यवान्विकिरेत हिरण्यकेशियादयस्त्वर्घ्यदानगन्धादिपूजोत्तरमग्नौकरणकालेयेदेवास

इत्यायातपितर इति मन्त्राभ्यामग्निदक्षिणतोदेवपित्रावाहनंकुर्वन्ति

कातीयैस्त्वर्घ्यपात्रासादनात्प्रागेवदेवपित्रावाहनंकार्यम् तथैवकात्यायनसूत्रात ततोर्घ्यपात्रसंपत्तिवाचयित्वाद्विजोत्तमान् ।

तदग्रेचार्घ्यपात्रेतुस्वाहार्घ्यमितिविन्यसेत् १ अपोदत्वाविप्रहस्तेदद्यादर्घ्यपवित्रके ।

यादिव्या इति मन्त्रेणहस्तेष्वर्घ्यविनिक्षिपेत् २ विश्वेदेवा इदंवोर्घ्यस्वाहानम इतीरयन् ।

प्रतिविप्रंयादिव्येत्यावृत्तिः केचित्तुयादिव्या इत्यनेनदत्तार्घ्यानुमंत्रणमाहुः मयूखे

कातीयप्रयोगेविप्रहस्तेर्घ्यपवित्रदानान्ते आवाहनदङ्गेष्वर्चनंकृत्वार्घ्यदानमित्युक्तम् एकविप्रत्वे

एकस्यैवहस्तेद्विरर्घ्यदानम् विप्रचतुष्टयपक्षे एकैकंपात्रंविभज्यद्वयोर्द्वयोर्देयम् कूर्चस्तुतत्तत्पात्रस्थ एव ॥

क्वचित्क्षीरदधिघृततिलतण्डुलसर्षपकुशाग्रपुष्पैतिद्रव्याष्टकमर्घ्यपात्रेप्रक्षिप्यमित्युक्तम्

आद्यन्तयोरपोयच्छन्गन्धाद्यैरर्चनंचरेत् । अमुकविश्वेदेवा अयंवोगन्धःस्वाहानम

इति करेणैवविप्रहस्तेष्वेवद्विर्द्विर्दानम् एवं सर्वत्रदैवेस्वाहानम इत्यन्तमुच्चार्योपचारदानम्

चन्दनागरुकर्पूरकुंकुमानिप्रदापयेत् । गन्धद्वारेतिवैगन्धमायनेतेचपुष्पकम् १

धूरसीत्यमुनाधूपमुद्दीप्यस्वेतिदीपकम् । युवं वस्त्राणिमन्त्रेनवस्त्रंदद्यात्प्रयत्नतः २

आसनेस्वासनंब्रूयादर्घ्येऽस्त्वर्घ्यद्विजोत्तमः । सुगंधश्चसुपुष्पाणिसुमाल्यानिसूधूपकः ३

सुज्योतिश्चैवदीपश्चस्वाच्छादनमितिक्रमः ।

कर्तास्कंधधृतोत्तरीयोविगतपवित्रकरोविप्रहस्तदत्तगन्धैर्विप्रभालाद्यङ्गेषुलिम्पेत्

विप्रभालेर्वतुलपुण्ड्रंत्रिपुंड्रवानकुर्यात् अत्रविप्राणांकस्तुरीविकल्पिता

आयनेते इति वौषधीःप्रतिमोदध्वमितिवागन्धदानवद्धस्तेष्वेवेदंवःपुष्पमितिपुष्पदानंकार्यम् ॥