४१ ऊहविचारः

अथोहविचारः यत्रबहुवचनान्तः पितृशब्दस्तत्रपितृशब्दस्यसर्वपितृवाचित्वादूहोन

यथार्घ्यपात्रेपितृनिमान्प्रीणयेत्यत्रमात्रादिश्राद्धेमातृनितिनवदेत्तत्रापिशुंधनमन्त्रेषुशुन्धन्तांपितरः

शुन्धंतांपितामहा इत्यादिशुन्धंतांमातरः इत्यादिचोह एव बहुवचनंतुनोह्यते प्रथममन्त्रे एवपूज्यत्वार्थकत्वात्

ऋचंनोहेदितिनिषेधादृङ्नन्त्रेषुनोहः पिण्डदानेयेचत्वामत्रानुतेभ्यश्चेत्यत्रमातृश्राद्धेयश्चत्वामत्रानुताभ्यश्चेतिनवदेत्

स्त्रीणांस्त्रियःपुरुषाश्चानुगा इति पुमान्स्त्रियेतिपुलिङ्गशेषादितिवृत्तिकृत् अन्येतुयाश्चेत्याद्यूहमाहुः

मात्रादिद्वित्वेपिण्डदाने एतद्वामस्मन्मातरौयज्ञदाश्रीदेयेचयुवामत्रान्वित्येकंपिण्डंदत्त्वास्मन्मातृभ्यां०

अयंपि० इत्यादि अभ्यञ्जनेस्मन्मातरौ० अभ्यञ्जाथां० अञ्जने अञ्जाथां एवं पितामहीप्रपितामहीद्वित्वेप्यूहः ॥

अथबहुत्वे एतद्वोस्मन्मातरोयज्ञदेश्रीदेरुद्रदेयथानामगोत्रायेचयुष्मानत्रानु इत्येकपिण्डदानादि

अभ्यञ्जनेभ्यङ्ध्वं अञ्जने अङ्गध्वमित्यादि एकनामत्वीकमेवनामद्विवचनान्तं

बहुवचनान्तंवावदेत् एवमर्घ्यदानकालेप्यस्मन्मातरावित्याद्यूहेनसंबोध्य इदंवामर्घ्यमिदंवोऽर्घ्यमित्यूहोबोद्धव्यः

तथाचायन्तुनःपितरःसो० तिलोसिसोमदेवत्यो० उशंतस्त्वनि०

पिण्डानुमन्त्रणदशादानोपस्थानप्रवाहणप्राशनादिमन्त्रेषुबहुवचनान्तपितृपदयुक्तत्वादिहेतोर्नोह इति सिद्धम्

नाप्रोक्षितंस्पृशेद्वस्तुनवदेन्मानुषींगिरम् । नचोद्वीक्षेतभुञ्जानंनचैवाश्रूणिपातयेत् १ दैवेपित्र्येचसर्वत्रजपहोमादिकर्मसु ।

मौनंकुर्यात्प्रयत्नेनसकलंफलमाप्नुयात् २ यादिमौनस्यलोपःस्याज्जपहोमार्चनादिषु ।

व्याहरेद्वैष्णवं मन्त्रंस्मरेद्वाविष्णुमव्ययम् ३ यसस्मृत्याचनामोक्त्यातपोयज्ञक्रियादिषु ।

न्यूनंसंपूर्णतांयातिसद्योवन्देतमच्युतम् ४ आदिमध्यावसानेषुश्राद्धस्येदमुदाहरेत् ॥