३८ सामान्यतःश्राद्धपरिभाषा

अथसामान्यतःश्राद्धपरिभाषा निपात्यदक्षिणंजानुदेवान्परिचरेत्सदा ।

पितृणांपरिचर्यातुवामजानुनिपातनात् १ प्रदक्षिणंतुदेवानांपितृणामप्रदक्षिणम् ।

पितृणांद्विगुणाभुग्नादर्भादैवे ऋजुत्वगाः २ दैवेतूदङ्मुखःकर्तापित्र्येस्याद्दक्षिणामुखः ।

संकल्पेक्षणदानेपाद्ये आसने आवाहनेर्घ्यदानेगन्धाद्याच्छादनान्तपञ्चोपचारेन्नदाने

पिण्डदानेञ्जनाभ्यञ्जनयोरक्षय्येस्वधावाचनेचसंबन्धगोत्रनामोच्चारनमावश्यकमन्यत्रकृताकृतम्

संबन्धगोत्रनामरूपाणीतिसंबन्धनामगोत्ररूपाणीतिवोच्चारणेक्रमः

तत्रसकारणेतुवक्तव्यंगोत्रंसर्वत्रधीमतेतिवाक्यात्काश्यपगोत्रस्यकाश्यपगोत्रस्येतिवोच्चारः

केचिच्छाखाभेदाद्व्यस्थामाहुः गोत्रस्यत्वपरिज्ञानेकाश्यपंगोत्रमुच्यते ।

शर्मान्तंविप्रनामोक्तंवर्मान्तंक्षत्रियस्यतु १ गुप्तान्तंचैववैश्यस्यदासान्तंशूद्रजन्मनः ।

पित्रादिनामाज्ञानेतुतातपितामहप्रपितामहेत्येवं ब्रूयात् न

नामोच्चारयेदित्याश्वलायनःशाखान्तरेतुपितुर्नाम्नःस्थानेपृथिवीषदितिपितामहस्यान्तरिक्षसदितिप्रपितामहस्यदिविषदिति

नामोच्चार्यम् स्त्रीणांदान्तंनामसावित्रीदेत्येवमुच्चार्यम् केचिद्देवीशब्दान्तमाहुः अन्ये देवीदापदयोः

समुच्चयमूचुः विभक्तिभिस्तुयत्किंचिद्दीयतेपितृकर्मणि ।

तत्सवसफलंज्ञेय्म्विपरीतंनिरर्थकम् १ षष्ठीविभक्त्यासंकल्पःक्षणश्चाक्षय्यकर्मच ।

षष्ठ्यावास्याच्चतुर्थ्यावासनदानंद्विजातये २ द्वितीययावाहनंस्याद्विभक्तिस्तुचतुर्थिका ३

अन्नदानेपिण्डपूजास्वधास्वस्तीवाचने ।

पिण्डदानेतुसंबुद्धिर्येचत्वेत्यादितःपुरा ४ ततःपरंचतुर्थीचेत्युभयंसर्वसंमतम् ।

शेशाणिसर्वकर्माणिसंबुध्यन्तेयथायथम् ५ इदंतेवा इदंवोवाप्रयुज्यैवसमाचरेत् ।

सव्येनदैव्म्कर्मस्यादपसव्येनपैतृकम् । ६ विप्रप्रदक्षिणाविप्रस्वागतंचार्घ्यदानकम् ।

सूक्तस्तोत्रजपोन्नस्यपात्रेषुपरिवेषणम् ७ आह्वानमन्नास्याघ्राणंतथाचस्वस्तिवाचनम् ।

देवार्चादक्षिनादिःस्यात्पादजान्वं समूर्धसु ९ शिरोंसजानुपादेषुवामाङ्गादिषुपैतृके ।

अक्षय्यासनार्घ्यवर्ज्यस्वधाकारणेपितृभ्यःसर्वदानम् देवेभ्यः स्वाहापदेन दैवतीर्थेनदैवं तत्पितृतीर्थेनपैतृकम् ॥