३७ यदैक एवविप्र

यदैक एवविप्रस्तदाविश्वेद्वस्थानेशिवलिङ्गशालग्रामंवासंस्थाप्यसर्वश्राद्धंसमाचरेत् दैवान्नंतत्क्षिपेदग्नौदद्याद्वाब्रह्मचारिणे ।

स्थानत्रये एकोविप्र इति पक्षःसपिडीकरणादन्यत्र सपिण्ड्करणेतुपार्वणेत्रय एवविप्राः

वृद्धिश्राद्धेतुदैवेद्वौप्रतिपार्वणंद्वौद्वावेवमष्टौनिकृषपक्षे संपदिदैवेचत्वारः प्रतिपार्वणंचत्वार इति षोडशेत्येवं दैवेपित्र्येचसमा

विप्रा इति विशेषः सर्वथाब्राह्मणालाभेकृत्वादर्भमयान्बटून् ।

प्रेषानुप्रेषसंयुक्तं सर्वश्राद्धंप्रकल्पयेत् १ अत्रविप्रानुकूल्यर्पदृष्टप्रयोजनाभावेप्यदृष्टार्थदक्षिणादेया

एवं यतेःश्राद्धोपवेशनेपि साचदक्षिणाकालान्तरेन्यस्मैप्रतिपादनीया ।

अथवाभ्यर्चितंलिंगंशालग्राममथापिवा । संस्थाप्यदेवपित्रर्थंपीठेश्राद्धंचरेन्नर १ पितरस्तस्यतिष्ठंतिकल्पकोटिशतंदिवि ।

निमन्त्रणंतुविप्राणांपूर्वेद्युःसद्य एववा २ कुर्याद्विप्रांश्चनियमाञ्छ्रावयेत्पैतृकान्बुधः ।

अक्रोधनैःशौचपरैःसततंब्रह्मचारिभिः । भवितव्यंभवद्भिश्चमयाचश्राद्धकारिणा १ इति ॥