३६ श्राद्धेब्राह्मणसंख्या

अथश्राद्धेब्राह्मणसंख्या वैश्वदेवेसमाः पित्र्येविषमाः तेनद्वौवैश्वदेवे त्रयः पितृपार्वणे इति पञ्चविप्राः

अथवाचत्वारोदैवेपार्वणेतुपित्रादीनामेकैकस्यत्रयस्त्रय इति त्रयोदशविप्राः यद्वा पित्रादेरेकैकस्यपञ्चेत्येकोनविंशतिः

किंवा एकैकस्यसप्तेतिपञ्चविंशतिः एवं दर्शादौपार्वणाधिक्येविप्राधिक्यमूह्यम् तथाच

वैश्वदेवेद्वौचतुरोवोपवेश्यपितादिष्वेकैकस्यस्थाने एकंत्रीन्पञ्चसप्तनववोपवेशयेदितिनिष्कर्षः

सत्क्रियांदेशकालचद्रव्यब्राह्मणसंपदं । शौचंचविस्तरो हन्तीतिपक्षे अशक्तोवादैवे एकः

पित्रुपार्वणेचैक इति द्वौविप्रौ तदुक्तंश्रीभागाते द्वौदैवेपितृकार्येत्नीनेकैकमुभयत्रवा ।

भोजयेत्सुसमृद्धोपिश्राद्धेकुर्यान्न विस्तरम् १ देशकालोचितश्रद्धाद्रव्यपात्रार्हणानिच ।

सम्यग्भवन्तिनैतानिविस्तरात्स्वजनार्पणात् २ इति एतेनद्वौदैवे एकः पित्र्ये इति विप्रत्रयपक्षोनिर्मूलावेदितव्यः

द्वौदैवेथर्वणौविप्रौप्राङ्गुखावुपवेशयेत् । पित्र्येतूदङ्द्मुखांस्त्रीश्च ऋग्यजुःसामवेदिनः १ अत्यशक्तौपार्वणद्वये एकोविप्रः ॥