३५ निमन्त्रणादि

अथनिमन्त्रणादिश्राद्धाहेभुक्तान्नपरिणामपर्यन्तंकर्तुर्विप्राणांचनियमाः

स्त्रीसङ्गपुनर्भोजनानृतभाषणाध्यापनद्युतायासभारोद्वहनहिंसादानप्रतिग्रह

चौर्याध्वगमनदिवास्वापकलहादिवर्जनंकर्तृभोक्त्रुभयधर्माः

स्त्रीसङ्गश्चश्राद्धदिनेतत्पूर्वदिनेचरुतुकालेपिवर्ज्यः

ताम्बूलक्षुरकर्माभ्यङ्गदन्तधावनवर्जनंकर्तृधर्माःभोक्तृविप्राणांतैलाभ्यङ्गे उद्वर्तनेक्षुरेचविकल्पः

कर्तुर्भोक्तुश्चमुख्यवारुनस्नानेनैवाधिकारोनतुगौनस्नानेन श्राद्धकृच्छुक्लवासाःस्यान्मौनीचविजितेन्द्रियः ।

उपवासंपरान्नंच औषधंचविवर्जयेत् १ अवस्त्रत्वं मलवद्वस्त्रत्वं कौपीनवत्त्वं

कच्छहीनत्वमनुत्तरीयत्वं काषायवस्त्रत्वमार्द्रवस्त्रत्वं द्विगुणवस्त्रत्वं रक्तवस्त्रत्वं

दग्धवस्त्रत्वं स्यूतवस्त्रत्वमित्येकादशविधनग्नत्वं कर्तृभोक्तृभ्यांवर्ज्यम् कर्तुर्ललाटे ऊर्ध्वपुण्ड्रादेर्विकल्पः

भोक्तुस्तुभवत्येव चन्दनतिलकस्तुपिण्डदानात्प्राककर्तुर्वर्ज्यःभोक्तस्तुभोजानकालात्प्राक्‌वर्ज्यः

सदर्भहस्तेनतिलकोनकार्यः करणे आचमनंदर्भत्यागश्च कर्त्रानिमन्त्रितविप्रत्यागोनकार्यः

प्रमादेनत्यागेयत्नेनविप्रःप्रसादनीयः बुद्धिपूर्वकत्यागेयतिचान्द्रायणंप्रायश्चित्तम् आमन्त्रितस्तुयोविप्रो भोक्तुमन्यत्रगच्छति ।

नरकाणांशतंगत्वाचाण्डालेष्वभिजायते १ आमन्त्रितस्तुयःश्राद्धेविलम्बंकुरुतेद्विजः ।

देवद्रोहीपितृद्रोहीपच्यतेनरकेषुसः २ स्त्रीसङ्गः

पुनर्भोजनंचश्राद्धपूर्वरात्रावपिकर्तृभोक्तृभ्यांवर्ज्यम् दशकृत्वःपिबेदापो गायत्र्याश्राद्धमुगद्विजः ।

सायंसंध्यामुपासीतजपेच्चजुहुयादपि १ सूतकेचप्रवासेच अशक्तौश्राद्धभोजने ।

औपासनादिकंहोमंनकुर्यात्किंतुकारयेत् २ निमन्त्रितस्तुनश्राद्धेकुर्याद्भार्यादिताडनम् ।

अपराह्णख्यमुहूर्तत्रयेवनस्पतिच्छेदं दधिमन्थनंसर्वैर्नकार्यम् यदाकर्तुरशक्त्यातत्पुत्रशिष्यादिःप्रतिनिधिःश्राद्धं करोति

तदायजमानप्रतिनिधिभ्यामुभाभ्यापूर्वोक्ताःसर्वेकर्तृनियमाःकार्याःमुक्तकच्छातुयानारीमुक्तकेशीतथैवच ।

हसतेवदतेऽत्यन्तंनिराशाःपितरो गताः १ सवर्णप्रेषयेदाप्तद्विजानांतुनिमन्त्रणे ।

अभोज्यंब्राह्मणस्यान्नंवृषलेन निमन्त्रितम् २ तथैववृषलस्यान्नंब्राह्मणेननिमन्त्रितम् । वृषलःशूद्रः ॥