३४ गृह्याग्नौपाकेविशेषः

तत्रगृह्याग्नौपाकेविशेषः प्रातर्होमंकृत्वातदेकदेशंमहानसेकृत्वापाकंकुर्यात्

पाकान्तेपावकाग्न्येकदेशंगृह्याग्नौसंयोज्यगृह्येऽग्नौकरणवैशदेवादिकार्यम्

अत्रैवं व्यवस्था कात्यायनादीनांगृह्याग्नौपाकः आश्वलायनानांतुनैत्यकेपचनाग्नौ

अग्नौकरणंत्वाश्वलायनानांव्यतिषङ्गेणश्राद्धेगृह्याग्निपक्वचरुणागृह्ये एवव्यतिषङ्गाभावेपाणिहोमः

अन्यशाखीयस्यगृह्याग्नावग्नौकरणम् विधुरस्योच्छिन्नाग्निकस्यचपृष्टोदिविविधानादिनाग्निसंपादनम्

तच्चपूर्वार्धे उक्तम् भोजनपात्राणितुहेमरौप्यकांस्यजानिवापलाशकमलकदलीमधूकपत्रनिर्मितानिवा ॥