३२ श्राद्धकर्मणिचनग्राह्यम्

कदर्यादीनामन्नंनित्यभोजनेश्राद्धकर्मणिचनग्राह्यम्

तेचकदर्यश्चोरोनटोवीणोपजीवीवार्धुषिकोभिशस्तोगणिकाचिकित्सकःक्रुद्धः

पुंश्चलीमत्तःक्रूरःपतितोदाम्भिकःपतिपुत्ररहितास्त्रीस्वर्णकारः

स्त्रीजितोग्रामयाजकोघातुकःकर्मारस्तन्तुवायःकृतघ्नोवस्त्रक्षालनोपजीवीदारोपजीवीसोमविक्रयीचित्रकर्मागायक

इत्यादयस्त्रैवर्णिका अपि अग्राह्यान्नाः आत्मानंधर्मकृत्यंचपुतदारांश्चपीडयेत् ।

लोभाद्यः पितरौभृत्यान्सकदर्य इति स्मृतः १ द्वावेवाश्रमिणौभोज्यौब्रह्मचारीगृहीतथा ।

वानप्रस्थोयतीलिङ्गीनभोज्यान्नाःप्रकीर्तिताः २ षण्मासंयोद्विजोभुङ्क्ते शूद्रस्यान्नंविगर्हितम् ।

सतुजीवन्भवेच्छूद्रोमृतःश्वाचाभिजायते ३ अन्यानि च

द्रव्याणिनिबन्धेषुबहूनिनिषिद्धानितानिविहितोत्तयर्थसिद्धत्वादप्रसिद्धत्वाच्चनोक्तानि

दुर्गन्धेफेनिलंक्षारंपङ्किलंपल्वलोदकम् ।

नभवेद्यत्रगोतृप्तिर्नक्तंयच्चाप्युपाह्रतम् १ नग्राह्यंतज्जलंश्राद्धेयच्चाभोज्यनिपानजम् ।

स्नानमाचमनंदानंदेवतापितृतर्पणम् २ शूद्रोदकैर्नकुर्वीततथामेघाद्विनिःसृतैः ।

नाहरेदुदकंरात्रौतुलसींगोमयंमृदम् ३ तुलसीबिल्वजान्हवीजलभिन्नंपर्युषितंजलंपुष्पंचत्यजेत्

दौहित्रःकुतुपःकालश्छागःकृष्णाजिनंतथा ।

रौप्यंदर्भास्तिलागावःखङ्गपात्रंपितृप्रियम् १ आरण्याःकृष्णतिलामुख्याः

तदभावेग्राम्यागौराःकृष्णाश्च

छागसांनिध्यंश्राद्धेतिप्रशस्तम् कुक्कुटविड्‌वराहकाकमार्जारशूद्रषण्ढरजस्वलासान्निध्यमतिनिन्द्यम् चा

ण्डालरजस्वलाखञ्जश्वित्रिन्यूनाङ्गतिरिक्ताङ्गदिभिर्वीक्षितमन्नमभोज्यम् आपदिमृद्भस्महिरण्योदकस्पर्शाद्भोज्यम्

पावमानीतरत्समन्दीमन्त्रेर्गायत्र्यादिभिश्चदर्भजलप्रोक्षणेदुष्टान्नशुद्धिःपादुकोपानहौछत्रंरक्तचित्राम्बरंतथा ।

रक्तपुष्पंचमार्जारंश्राद्धंभूमौविवर्जयेत् १ घण्टानादोश्वधत्तूरशङ्खशुक्तिसान्निध्यंचवर्ज्यम् ॥