३१ वर्ज्यानि

अथवर्ज्यानि यद्यपिविहितोत्क्यैवतद्भिन्नानामग्राह्यत्वं प्राप्तंतथापिविशेषदोषप्रदर्शनायाप्राप्तनिषेधज्ञापनायचतानिसंगृह्यन्ते

उत्कोचादिनाप्राप्तंपतितान्त्यजादेःप्राप्तन्यायार्जितंकन्याविक्रयादिलब्धंनंनिन्द्यम् पित्रर्थमेदेहीतियचनार्जितमपिनिषिद्धम्

आढकीकुलित्थमसूरकोद्रवराजसर्षपानिषिद्धःलांकेतिप्रसिद्धाःमर्कटकाश्चवर्ज्याःशिग्रुकूष्माण्डोभयविधालाबुकरम-

र्द्रार्द्रमरीचपिन्डमूलककुसुम्भशणवं शांकुराः दशविधालशुनादिपलाण्डभेदाःकृत्रिमलवणानिरक्तबिल्वं श्वेतंकृष्णंवृन्ताकं

गाजरापरपर्यायंगृंजनंभोकरसंज्ञःश्लेष्मातकोरक्तनिर्यासाश्चवर्ज्याः सामुद्रसैन्धवेभक्ष्येप्रत्यक्षंलवणेबुधैः ।

बिडालोच्छिष्टमाघ्रातंचश्राद्धेद्रव्यंविवर्जयेत् १ करिरफलपुष्पाणि विडङ्गमरिचानिच ।

बीजपूरंपटोलंचश्राद्धेदत्त्वापतत्यधः २ कृष्णधान्यानिसर्वाणिवर्जयेच्छ्राद्धकर्मणि ।

नवर्जयेत्तिलांश्चैवमुद्गमाषांस्तथैवच ३ दातुर्यद्यत्प्रियंतत्तद्देयंनिन्द्यंनचेद्धितत् ।

अजाविमहिषीक्षीरंतद्विकारांश्चवर्जयेत् ४ वालुकाकीटपाषाणैःकेशैर्यच्चाप्युपद्रुतम् ।

वस्त्रेणवीजितंचान्नंवर्जयेच्छ्राद्धकर्मणि ५ अमेध्येर्जङ्गमैःस्पृष्टंशुष्कं पर्युषितंचयत् ।

द्विःपक्वं परिदग्धंचसिद्धभक्षांश्चवर्जयेत् ६ यत्सकृत्पाकेनभक्षणार्हमपिहिङ्गुजीरकादिसंस्कारार्थंपुनःपच्यतेतद्द्विःपक्वं

वर्ज्यम् यत्तुद्विःपाकेनैवभक्षणार्हतन्ननिषिद्धमितिसिन्धुः यदनैकदेशःकेनचित्पूर्वमास्वादितस्तदन्नंश्राद्धेवर्ज्यम्

मारीषं ‘राजगिरे’तिप्रसिद्धंशाकंधान्यंचवर्ज्यम् वटप्लक्षोदुम्बरकपित्थनीपमातुलिङ्गफलानिनभक्षयेत्

क्षीरंचलवणैर्मिश्रंताम्रेगव्यंसुरासमम् । अस्यापवापः पयोनृद्धृतसारंचपयसासंयुतंदधि ।

घृतंचैतानिगव्यानिनैवदुष्टानिताम्रके १ पिप्पलीवर्तुलमरीचादेःप्रत्यक्षस्यनिषेधोनत्वद्रव्यमिश्रितस्य नारिकेलंविहितप्रतिषिद्धम्

यच्चपौतिकशाकादिकंजीर्णतक्रंसंधिन्यादिक्षीरमनिर्दशायाःक्षीरंमृग्यादिक्षीरंफेनिलतक्रादिकंहस्तदत्त-

स्नेहलवणादिकंचनित्यभोजनेनिषिद्धंतत्सर्वं श्राद्धेपिवर्जयेत् माधवीये

मृतैर्मक्षिकाकृमिजन्तुभिःकेशरोमनखादिभिश्चदूषितंसतिसंभवेवर्जयेत् संभवेतुकेशादिकमृद्धृत्यसंप्रोक्ष्यहिरण्यस्पर्शकृत्वाभुञ्जीत

श्वमार्जारमूषकादिभिरालीढादिकंत्वापद्यपिवर्ज्यमित्युक्तम्

यत्तुमण्डकवटकसक्तुपायसापूकृसरादीनांस्नेहसिद्धानांचपर्युषितत्वदोषोनास्तीतिवचनंतन्नित्यभोजनपरंनतुश्राद्धपरमितिशिष्टाः

यदग्निपक्वं सदेकरात्रिद्विरात्राद्यन्तरितंतत्पर्युषितमुच्यते ॥