३० हविः

व्रीहियवतिलमाषगोधूमश्यामाकप्रियङ्गुमुद्गसर्षपाःश्राद्धेप्रशस्ताःचणकोविकल्पितः

यावनालोपिविकल्पितः इष्टापूर्तेमृताहेचदर्शवृद्ध्यष्टकासुच ।

पात्रेभ्यस्त्वेषुकालेषुदेयंनैवकुभोजनम् १ अगोधूमंचयच्छ्राद्धंमाषमुद्गविवर्जितम्

तैलपक्वेनरहितंकृतमप्यकृतंभवेत् २ राजमाषाश्चनिष्पावा अपिशस्ताःसतीनकाः ।

राजमाषामहाराष्ट्रभाषया’चवळी’तिप्रसिद्धाःनिष्पावाः ‘पावटे’ इति सतीनकाः ‘वाटाणे’ इति

कदलीफलमाम्रफलंसूरणःपनसःत्रिविधंकर्कटीपलम् कोशातकी ‘दोडका’ इति प्रसिद्धा कुस्त्म्बुरुवैकल्पिकम्

पटोलंबदरमामलकंखर्जूरीफलंचिंचार्द्रकंशुण्ठीमूलकंद्राक्षालवं गैलापत्रकाणिजीरकंहिङ्गुदाडिमफलमिक्षुःशर्करागुडः

कर्पुरःसैन्धवसामुद्रेलवणेपूगीफलंताम्बूलपत्रमितिश्राद्धेप्रोक्तानिहवीषि गव्ये दधिदुग्धे घृतंगव्यंमाहिषंच

केचिन्माहिषंतक्रंसद्यःकृतमनुद्धृतनवनीतंग्राह्यमाहुःकेचिन्महिषीक्षीरंशर्करादियुतंग्राह्यमाहुःमथितंनिर्जलंदधिसर्वनिषिद्धम्

जम्भीरफलं विहितप्रतिषिद्धत्वाद्विकल्पितम् अक्षोटः ’ अक्रोड’ इति प्रसिद्धः शङ्वाटकः '

शिंगाडे’ इति प्रसिद्धः चिर्भटं ‘खर्बूज’ इति प्रसिद्धम् शीतकंदली ‘राताळी’ति प्रसिद्धम्

एते श्राद्धेविहिता आम्रातकः ’ आंबाडा’ इति प्रसिद्धस्तण्डुलीयो’माथ’ इति प्रसिद्धः

एतौद्वौविहितप्रतिषिद्धौ केचिद्राजमाषंकृष्णेतरमुद्गंकृष्णनिष्पावं चनिषिद्धमाहुः

कथंचिद्यदिविप्रेभ्योनदत्तंभोजनेमधु । देवराच्चसुतोत्पत्तिःकलौपञ्चविवर्जयेत् १

इति वचनद्वयान्मधुनि एच्छिकविकल्पः केचिद्यथाचारंप्रदेयंतुमधुमांसादिकंतथा ।

इति वचनाद्देशाचारानुसारेणव्यवस्थितकल्पमाहुः

मांसंश्राद्धेषुनैवदेयंकलिवर्ज्यत्वात् नदद्यादमिषंश्राद्धेनचाद्याद्धर्मताववित् ।

इत्यादिश्रीभागवतवचनाच्च

अन्यानिमुञ्जातचव्यकसेरुकालेयादिद्रव्याणिबहूनिमहानिबन्धेषूक्तानितान्यप्रसिद्धत्वाच्छ्राद्धेवश्यापेक्षोपयोगयोरभावाच्चनोच्यंते ॥