२९ श्राद्धार्हद्रव्याणि

तत्रदर्भाःदर्भग्रहनेकालोमन्त्रोदर्भभेदाश्चद्वितीयपरिच्छेदे उक्ताः विशेषेस्तूच्यते

कुशामुख्याःकुशाभावेकाशदूर्वोशीरतृष्णादयः

तत्रकाशैर्दूर्वाभिर्वाकृतपवित्रहस्तोनाचामेत् द्वाभ्यामनामिकाभ्यांतुधार्येदर्भपवित्रके ।

एकानामिकयावापिद्वयोर्मध्येतुपर्वणोः १ साग्रौविगरभौतुकुशौकार्यताभ्यांपवित्रकम् ।

द्वाभ्यांतत्स्याच्चतुर्भिर्व्वाग्रन्थियुक्तंनवाभवेत् २ स्नानेदानेजपेहोमेस्वाध्यायेपितृकर्मणि ।

सपित्रौसदर्भोवाकरौकुर्वीतनान्यथा २ ब्रह्मग्रन्थीपवित्राढ्यो नाचामेच्चबुधःसदा ।

केचिद्गथित पवित्राभावेसाग्रदर्भौद्वौदक्षिणकरेवामेतुत्रीन्द्वौवाबिभृयादित्याहुः

आसनेद्वौदर्भौ पितृकर्मणिसमूलाद्विगुणादर्भाः

दैवेसाग्रा ऋजवःपित्र्येपिसपिण्डीकरनपर्यन्तमृजुदर्भास्तदूर्ध्वद्विगुणाभुग्ना इति

येचपिण्डाश्रितादर्भायैःकृतंपितृतर्पणम् । मलमूत्रोत्सर्गधृतामलमूत्राद्यमेध्यगाः १

मार्गेचितौकज्ञभूमौस्थितायेस्तरणासने । ब्रह्मयज्ञेचयेदर्भास्त्यागार्हाःसर्व एवते २

अन्यानिचपवित्राणिकुशदूर्वात्मकानिच ।

हेमात्मकपवित्रस्यकलांनार्हन्तिषोडशीम् ३ पञ्चगुञ्जमाशमानेनषोडशमाशंहेममय्म्प्रवित्रकमित्याहुः ॥