२८ अत्रविप्राणां

ग्राह्यत्वोक्त्यैवतद्भिन्नानांवर्ज्यत्वेसिद्धेपुनर्वर्ज्यपरिगणनंवर्ज्यभिन्नानांनिर्गुणानामपिग्राह्यत्वार्थम्

विद्याशीलादिगुणवत्तकुष्ठित्वकाणत्वादिशारीरदोषाणांनदूषकत्वम्

गयायांतुनिर्गुना अपिते एवभोज्याः नविचार्यकुलशीलंविद्याचतप एवच ।

पूजितैस्तैस्तुष्टादेवाःसपितृगुह्यकाः १ इत्युक्तेः ब्राह्मणान्नपरीक्षेततीर्थेक्षेत्रनिवासिनः ।

यत्तु नब्राह्मणंपरीक्षेतदैवेकर्मणिधर्मवित् पित्र्यैकर्मणितुप्राप्तेपरीक्षेतप्रयत्नतः १

इति तदसंभवपरम् गायत्रीसारमात्रोपिवरंविप्रःसुयन्त्रितः ।

नायन्त्रितश्चतुर्वेदीसर्वाशीसर्वविक्रयी १ इति हेमाद्रौव्यासः श्राद्धेकाणादयोभोज्यामिश्रितावेदपारगैः ।

विप्रानिमन्त्रणात्पूर्वमेवपरीक्षणीयानतुनिमन्त्रणोत्तरम् इति ब्राह्मणविचारः ॥