२७ वर्ज्याविप्राः

अथवर्ज्याविप्राःक्षयश्वासमूत्रकृच्छ्रभगन्दरादिमहारोगी

हीनाङ्गोधिकाङ्गकाणोबधिरोमूकःशत्रुःकितवोभृतकाध्यापकोमित्रद्रोहीपिशुनःकुनखी

कृष्णदन्तःक्लीबोमातापितृगुरुत्यागी चोरोनास्तिकःपापकर्माविहितकर्मत्यागीनक्षत्रोपजीवीवैद्योराजभृत्योगायको लेखकः

कुसीदजीवीवेदविक्रयीकवित्वजीवीदेवार्चनजीवीनटोगृहदाहीसमुद्रगामीशस्त्रकर्तासोमविक्रयीपक्षिपोषकःपरिवेत्ता

दिधिषूपतिःकुमाराध्यापकःपुत्रात्प्राप्तविद्योद्रव्यप्रात्यर्थंवेदघोशकारीग्रामयाजीकेशपशुविक्रयीशिल्पी

पित्राविवाद अकारीशूद्रयाजकोजटीश्मश्रुहीनोनिर्दयोरजस्वलापतिर्गर्भिणीपतिः

कुब्जोवामनोरक्तनेत्रोवाणिज्योपजीवीछिन्नोष्ठश्छिन्नलिङ्गोगडुमानज्वरितोदेवलकोविधुरोनिरग्निः

शूद्रगुरुःशूद्रशिष्योदाम्भिकोगोविक्रयीरसविक्रयीवेदनिन्दकोवृक्षरोपकः

कदर्यःसदायाचकःकृषिजीवीसाधुनिन्दितोमेषमहिषयोःपोषकः

कपिलकेशोविस्मृतवेदोनिष्ठुरवागित्यादयोविप्राहव्यकव्ययोर्वर्ज्याः धर्मार्थमुदरार्थवौषधकारीविगर्हितः ।

देवार्चनपरोनित्यं वित्तार्थीवत्सरत्रयम् १ असौदेवलकोनामदेवस्वग्राहकोपिच ।

वर्जनीयःसविज्ञेयःसर्वकर्मसुसर्वदा २ इदंमनुष्यस्थापितदेवताविषयमितिभाति दाराग्निहोत्रसंयोगंकुरुतेयोग्रजेस्थिते ।

परिवेत्तासविज्ञेयःपरिवित्तिस्तु अग्रजः १ अग्रजानुज्ञादौनदोष इत्युक्तम् ज्येष्ठायांयद्यनूढायांकन्यामामूह्यतेऽनुजा ।

साचाग्रेदिधिषूर्ज्ञेयापूर्वातुदिधिषूर्मता १ प्रतिमाविक्रयंयोवैकरोतिपतितस्तुसः

जीवानार्थपरास्थीनिनयतेपतितःसच २ गाननृत्यादिकमुदरार्थनिषिद्धंनतुभगर्वदर्थम् ॥