२५ श्राद्धेब्राह्मणाः

अथश्राद्धेब्राह्मणाह तत्र जातकर्मादिसंस्कारैःसंस्कृताःसत्यवाक्शुचिः ।

वेदाध्ययनसंपन्नःषट्‌सुकर्मस्ववस्थितः १ पुरुषत्रयविख्यातःसवैब्राह्मण उच्यते ।

इति ब्राह्मनसामान्यलक्षणम् तत्रोत्तममध्यमाधमभेदेनत्रिविधाब्राह्मणाः ॥

तत्रोत्तमः वेदाध्ययनसंपन्नावेदाङाध्यायिनोपिच ।

येवैयाकरणायेचमीमांसाध्ययनेरतः १ पौराणिकश्चवेदान्तीधर्मशास्त्ररतोपिच ।

एतेषामप्रियेपुत्राब्रह्मवेत्तातथैवच २वेदार्थज्ञःकर्मनिष्ठस्तपोनिष्ठश्चयोगिनः ।

पितृमातृपरश्चैवस्वधर्मनिरतस्तथा ३ शिशुरप्यग्निहोत्रीचसोमादिश्रौतकर्मवित् ।

शिवभक्तौविष्णुभक्ताभार्यायामृतुकालगः ४ गुरुभक्तोज्ञाननिष्ठः सोमयाजीचसत्यवाक्‍ ।

सुशीलस्नातकयतिब्रह्मचारिण उत्तमाः ५ एतेसर्वेसपत्नीकायुवत्वादिगुणान्विताः ।

सापिंड्ययोनिशिष्यत्वादिसंबंधैश्चवर्जिताः ६ कुष्ठापस्मारादिदोषैर्हीनाश्चेदुत्तमाःस्मृताः ।

तत्रदशाहादिसूतकादिप्रयोजकसापिण्ड्यसगोत्रसोदकत्वरूपसंबन्धः सापिण्ड्यपदाभिधेयः

योनिसंबन्धोमातुलत्श्चशुरत्वशालकत्वादिः आदिनागुरुत्वसहाध्यायित्वमित्रत्वादयः

तथाचसपत्नीकत्वादिगुणयुक्ता उक्तसंबन्धहीना अपस्मारान्धत्वादिदोषहीनावेदाध्यायित्वादिसप्तविंशतिप्राकराविप्रा उत्तमा इति सिद्धम्

तत्रविशेषः यद्येकंभोजयेच्छ्राद्धेछन्दोगंतत्रपूजयेत् । ऋचोयजुंषिसामानित्रितयंतत्रविद्यते १ ऋग्वेदिनंचपित्रर्थेयाजुषंतुपितामहे ।

प्रप्ति आमहेसामगंचभोजयेच्छ्राद्धकर्मणि २ अथर्ववेदिनंवैश्वदेवेपित्र्येचभोजयेत् ।

एतेनस्वशाखियद्विजाभावेद्विजानन्यान्निमन्त्रयेदितिनिरस्तम् केचिद्यथाकन्यातथाहविरितिनियमाद्यैः

सहयोनिसंबन्धस्त एवपरशाखीयाःश्राद्धार्हा इत्याहुस्तन्निर्मूलम् केचिच्छ्राद्धकर्तृसगोत्रसप्रवरावर्ज्याः

पितृपुत्रौभ्रातरौद्धौनिरग्निगुर्विणीपतिम् । सगोत्रप्रवरंचैववर्जयेच्छ्राद्धकर्मणि १

इति वचनादित्याहुः विनामाम्सेनमधुनाविनादक्षिणयाशिषा । परिपूर्णभवेच्छ्राद्धंयतिशुश्राद्धभोजिषु १ इति यतिप्रशंसा ॥