२३ अनान्दिनापितृतृप्तिविचारः

अनान्दिनापितृतृप्तिविचारःपुत्रादिभिःपितृमात्राद्युद्देशेनश्राद्धेक्रियमांणेनामगोत्रमन्त्राश्चतत्तदन्नंतान्पितृन्प्रापयन्ति

तत्रपित्रादीनांदेवरुपत्वेदन्नममृतरूपंभूत्वातत्रोपतिष्ठते

गन्धर्वत्वेभोग्यरूपेणपशुत्वेतृणरूपेणसर्पत्वेवायुरूपेणयक्षत्वेपानरूपेणदानवादित्वेमांसत्वेनप्रेतत्वेरुधिरत्वेनमनुष्यत्वेन्नादिरूपेणेति

ग्रन्थान्तरे तस्यतेपितरः श्रुत्वश्राद्धकालमुपस्थितम् ।

अन्योन्यं मनसाध्यात्वासंपतन्तिमनोजवाः १ तेब्राह्मणैःसहाश्रन्तिपितरोवायुरूपिणः ।

अत एवश्रीरामेणश्राद्धेक्रियमानेसिताविप्रेशुदशरथादीन्ददर्शेतिकथाश्रूयते प्रावृष्यन्तेयमःप्रेतान्पितृंश्चाथयमालयात् ।

विसर्जयतिभूलोकंकृत्वाशून्यंस्वकंपुरम् १ तेपुत्रादेःप्रकाक्षन्तिपायसंमधुसंयुतम् ।

कन्यागतेसवितरिपितरोयान्तिवैसुतान्‍ २ अमावास्यादिनेप्राप्तेगृहद्वारंसमाश्रिताः ।

श्राद्धाभावेस्वभवनंशापंदत्त्वव्रजन्तिते ३ अतोमूलेःफलैर्वापितथाप्युदकतर्पणैः ।

पितृतृप्तिंप्रकुर्वीतनैवश्राद्धंविवर्जयेत् ४ किंचध्राद्धेनब्रह्मादिस्तम्बपर्यन्तंसकलभूततृप्तिःश्रूयते तत्र

पिशाचादिरूपाणांविकिरादिभिस्तृप्तिर्वृक्षादिरूपाणांस्नानवस्त्रोदकादिनाकेषांचिदुच्छिष्टपिण्डादिनेति

अतोब्रह्मीभूतपितृकेणापिश्राद्धंकार्यम् तत्रपितृपितामहप्रपितामहादिरूपमेकैकंपार्वणंवसुरुद्राद्त्यादिभेदेनध्येयम्

एकोद्दिष्टंवसुरूपेणेतिसर्वत्र केचित्तुपितृपितामहप्रपितामहाःप्रद्युम्नसंकर्षणवासुदेवात्मनाध्येयाः

कर्तानिरुद्धात्मनेत्याहुः एवं वरुणप्रजापत्यग्निरूपेणक्वचित् क्वचिन्मास ऋतुवत्सररूपेणेति

तत्रयथाचारंसमुच्चयेनविकल्पेनवाध्यानमितिव्यवस्था पित्रादिपार्वणंयत्रतत्रमतामहादयः ।

सर्वत्रैवहिकर्तव्यानाब्दिकेमासिकेषुनः १ मासिकेषुत्वाब्दिकेचत्रिदैवत्यंप्रकीर्तितम् ।

वृद्धौतीर्थेन्वष्टकासुगयायांचमहालये २ त्रिपार्वणकमत्रेष्टंशेषंषात्पौरुषंविदुः ।

सपत्नीकंपित्रादित्रयंसपत्नीकंमातामहादित्रयमितिषाट्‍पौरुषत्वम् क्षयाहंवर्जयित्वैकंस्त्रीणांनास्तिपृथकक्रिया ।

अन्वष्टकासुवृद्धौचगयायांचक्षयेहनि १ अत्रमातुःपृथक्‌श्राद्धमन्यत्रपतिनासह ॥