२० सांवत्सरिकनिर्णय उच्यते

अथप्रतिसांवत्सरिकमासिकादिनिर्णय उच्यते तत्रैकोद्दिष्टंमध्याह्नेसप्तमाष्टमनवममुहुर्तरूपेकार्यम्

तत्रापिकुतुपरौहिणसंज्ञकावष्टमनवममुहूर्तौमुख्यःकालः तत्रपूर्वत्रैवपरत्रैववादिनेमध्याह्नव्याप्तौसैवतिथिर्ग्राह्या

दिनद्वयेपब्याह्नव्याप्तौमध्याह्नास्पर्शेवापूर्वत्रैव दिनद्वयेसाम्येनैकदेशव्याप्तौपूर्वा खर्वदर्पाद्यैर्व्यवस्थेत्यन्ये

वैषम्येणैकदेशव्याप्तावाधिक्येननिर्णयः पार्वणेत्वपराह्णव्यापिनीग्राह्या पूर्वत्रैवपरत्रैववापराह्णव्याप्तौसैवग्राह्या

दिनद्वयेतद्व्याप्तौतदस्पर्शेवांशतःसमव्याप्तौपुर्वा विषमव्याप्तौत्वधिकाग्राह्या

माधवाचार्यास्तुदिनद्वयेपूर्णापराह्णव्याप्तावं शतःसमव्याप्तौचोत्तरतिथेःक्षयेपूर्वा वृद्धौपरा

उत्तरतिथेःक्षयवृद्धभावेपिपरेत्याहुः अयंक्षयाहनिर्णयः प्रत्याब्दिकेमासिकेसकृन्महालयेचज्ञेय