१८ श्राद्धकालाः

अथश्राद्धकालाः तेचप्रायेणामासंक्रान्तियुगादिमन्वादि महालयादयः पूर्वपरिच्छेद उक्ता एव केचित्तुच्यन्ते

महातीर्थप्राप्तिर्व्यतीपातोमृ आहोग्रहणद्वयंश्राद्धंप्रतिरुचिःश्रोतियादिब्राह्मणसंपत्तिरर्धोदयकपिलाषष्ट्याद्यलभ्ययोगाग्रहपीडा

दुःस्वप्नदर्शनंनवान्नप्राप्तिर्नवोदकप्राप्तिर्गृहप्रच्छादनादिनिमित्तंचश्राद्धकालाः यदाविष्टिर्व्यतीपातो भानुवारस्तथैवच ॥

पद्मकोनामयोगोयमयनादेश्चतुर्गुणः १ सर्वमासानांकृष्णपक्षेषुश्राद्धमुक्तम् अत्रप्रत्यहंपञ्चम्यादिवायदहःसंपत्त्र्वेतित्रयःपक्षाः

एकदिनपक्षेदर्श एव नारायणवृत्तौतुदर्शश्राद्धेनैवपक्षश्राद्धसिद्धिरुक्ता

सर्वमासेषुदर्शश्राद्धाशक्तोकन्याकुम्भवृषस्थैर्केसतिदर्शत्रयीकत्रदर्शेवाश्राद्धम् साग्निकस्यत्वशक्तस्यपिण्डपितृयज्ञमात्रेणदर्शसिद्धिः

निरग्निकस्यब्राह्मणभोजनमात्रेणधान्यादिद्रव्यदानेनवादर्शसिद्धीःकृष्णपक्षेषुमहालयापरपक्षस्यश्रेष्ठत्वम्

तत्रापिपञ्चदशाहादिपक्षा अन्योपिबहुविस्तरोद्वितीयपरिच्छेदे उक्तः अत्रविशेशान्तरंकालतत्त्वविवेचने

पञ्चदशाहव्यापिमहालयप्रयोगारम्भोत्तरमाशौचपातेकृतमहालयानांवैफल्यम्

तेनशुद्ध्यन्तेकस्यांचित्तिथौसकृन्महालयमात्रमनुष्ठेयम् एवं पञ्चम्यादिपक्षेपि

प्रतिबन्धान्न्तरेप्रतिनिधिद्वाराशेषमाहलयानुष्ठाम्

पितृव्यज्येष्ठभ्रात्रादीनामपुत्राणांमहालयापरपक्षेतत्तन्मृततिथौतदेकपार्वणकमहालयश्राद्धंजीवत्पितृकेणापिकार्यामिति

द्वादशपौर्णिमास्योऽसंभवेमाघीश्रावणीप्रौष्ठपद्योनित्याः कस्मिंश्चित्कृष्णपक्षेप्रतिपदादिपञ्चदशतिथिषुकृत्तिकादिबरण्यन्तनक्षत्रेषु

विष्कम्भादियोगेषुसूर्यादिवारेषुबव अदिकरणेषुचश्राद्धेफलविशेषोक्तेरेतेतिथ्यादयःकाम्यश्राद्धकालाज्ञेयाः इति सामान्यकालः ॥