१७ श्राद्धदेशाः

अथश्राद्धदेशाः दक्षिणाप्रवणेगोमयोपलिप्तेकृमिकेशास्थि

श्र्लेषादिवर्जितेकृत्रिमभूमिवर्जतेरजस्वलादर्शनादिवर्जितेश्राद्धंकार्यम्

कुरुक्षेत्रप्रभासपुष्करप्रयागकाशीगङायमुनानर्मदादितीरनैमिषगङगा

द्वारगयाशीर्षाक्षय्यवटादिषु श्राद्धंमहाफलम् शमीपत्रप्रमाणेनपिण्डंदद्याद्गयाशिरे

उद्धरेत्सप्तगोत्राणिकुलमेकोत्तरंशतम् १ पितामाताचभार्याचभगिनीदुहितातथा ।

पितृमातृष्वसाचैवसप्तगोत्राणिवैविदुः २

एषांगोत्राणांपुरुषाःक्रमेणचतुर्विंशतिविंशतिषोडशद्वादशैकादशदशाष्टावित्येकोत्तरशतसंख्यास्तेषामुद्धार इत्यर्थः

तत्रपितृकुलेद्वादशपूर्वाद्वादशपरा इति चतुर्विंशतिरेवमग्रेपि तुलसीकाननच्छायाशालग्रामस्यसन्निधिः ।

चक्राङिकतस्यसान्निध्यमेषुयत्क्रियतेनरैः १ स्नानंदानंतपःश्राद्धंसर्वमक्षय्यतांव्रजेत् ।

गोगजाश्वादिजुष्टप्रदेशेम्लेंच्छदेशेचश्राद्धंनकार्यम् परकीयगृहादौश्राद्धकरणेतद्भूमिस्वामिपितरोभागंहरन्ति

तेनगृहस्वामिनेमूल्यंदत्त्वाकार्यम् स्वाम्यनुज्ञयावाकार्यम् वनानिगिरयोनद्यस्तीराण्यायतनानिच ।

देवखाताश्चगर्ताश्चनस्वाम्यंतेषुकस्यचित् १ नैकवासानचद्वीपेनान्तरिक्षेकदाचन ।

श्रुतिस्मृत्युदितंकर्मनकुर्यादशुचिः क्वचित् ॥२॥