१६ श्राद्धभेदाः

तत्रश्राद्धंचतुर्विधम् पार्वणश्राद्धमेकोद्दिष्टश्राद्धंनान्दीश्राद्धं सपिण्डीकरणश्राद्धंचेतिभेदात्

पित्रादित्रयोद्देशेनविहितंपिण्डत्रययुतंपार्वणम्‌ तच्चैकपार्वणकद्विपार्वणकत्रिपार्वणकमितित्रिविधम्

तत्रपित्रादेर्मृततिथौक्रियमाणंप्रतिसांवत्सरिकमेकपार्वणकम्‌ अमावास्यादिषण्णवतिश्राद्धनित्यश्राद्धानि

महालयान्वष्टक्यभिन्नानिद्विपार्वनकानि एतेषुसपत्‍नीकपित्रादित्रयसपत्‍नीकमातामहादित्रययोरेवोद्देशात्

अन्वष्टकाश्राद्धंत्रिपार्वणकं पित्रादित्रयमात्रादित्रयसपत्‍नीकमातामहादित्रयाणामुद्देशात्

महालयश्राद्धंतीर्थश्राद्धंचपार्वणैकोद्दिष्टरुपम्‍ पित्रदिपार्वणत्रयस्यपत्‍न्याद्येकोद्दिष्टगणस्याचोद्देशात्

केचिदेतद्वयंमातामहमातामह्योः पार्वणभेदेनपार्वणचतुष्टययुतंकुर्वन्ति केषांचित्सूत्रेदर्शोपित्रीपार्वणकश्चतुः

पार्वणकोवेतिहेमाद्रौ एकोद्देशेनक्रियमाणमेकपिण्डयुतमेकोद्दिष्टम् तदपित्रिविधम्

नवसंज्ञंनवमिश्रसंज्ञंपुराणसंज्ञंचेतिमृतस्यप्रथमदिनमारभ्यदशाहान्तविहितानिनवसंज्ञानि

एकादशाहाद्दीन्यूनाब्दान्तानिनवमिश्राणि एतानिविश्वदेवहीनानि ततःपराणि

कनिष्ठभ्रातृवार्षिकशस्त्रहतचतुर्दशीश्राद्धादीनिपुराणसंज्ञानि

केचित्सपिण्डयुत्तरंक्रियमाणानांपार्वणानामपिपुराणसंज्ञामाहुः

पुत्रजन्मविवाहादौक्रियमाणंवृद्धिश्राद्धंनान्दीश्राद्धम् इदंपूर्वार्धेविस्तरेनप्रपञ्चितम्

एतदेवगर्भाधानपुंसवनसीमन्तेषु आधानेसोमेचक्रियमाणंकर्माङगमिष्टिश्राद्धमितिचोच्यते

अत्रक्रतुदक्षौविश्वेदेवाः अन्यकर्मसुवृद्धिसंज्ञम् तत्रसत्यवसुविश्वेदेवाः इति नामभेदोदेवभेदश्चान्यत्समानम्

एतच्चपार्वणत्रययुतत्वात्पार्वणभेदान्तर्गतमपिदर्शादितोबहुधर्मभेदात्पृथगुद्दिष्टम्

मृतस्यद्वा दशाहादिकालेपिण्डार्ध्यसंयोजनादिरुपंसपिण्डीकरणम्‌ एतदपिपार्वणैकोद्दिष्टविकाररुपम्

अत्रविशेषोवक्ष्यते एवं चपार्वणमेकोद्दिष्टमिति द्विविधमेवश्राद्धम् एतत्पुनस्त्रिविधम् नित्यंनैमित्तिकंकाभ्यंचेति

नियतनिमित्तेविहितंनित्यम् यथादर्शादि प्रत्यहंविहितमपिश्राद्धंनित्यसंज्ञंपार्वणद्वययुतंविश्वदेवहीनमुक्तम्

अनियतनिमित्तेविहितंनैमित्तिकम्‌ यथासूर्यचन्द्रग्रहणादौ एतदपिषड्‌दैवतम्

फलकामनोपाधिकंकाम्यम् यथापञ्चम्यादितिथौकृत्तिकादिनक्षत्रेच ॥