१५ श्राद्धशब्दार्थः

पित्रादीन्मृतानुद्दिश्यविहितेकालेदेशेपक्वान्नामान्नहिरण्यान्यतमद्रव्यस्यविधिनादानंश्राद्धम्

तत्राग्नौकरणंपिण्डदानंब्राह्मणभोजनंचप्रधानम् तदुक्तम् होमश्चपिण्डदानंचतथाब्राह्मणभोजनम् ।

श्राद्धशब्दाभिधेयंस्यादेकस्मिन्नौपचारिकम् १

इति क्वचिद्वचनादशक्‍त्यावापिण्डदानाद्यकरणेब्राह्मणभोजनादिमात्रमपिश्राद्धपदार्थःसंपद्यत इति चतुर्थपादार्थः

तथाचवचनान्तरम् यजुषांपिण्डदानंतुबहवृचानांद्विजार्चनम् । श्राद्धशब्दाभिधेयंस्यादुभयंसामवेदिनाम् ॥१॥

अश्रद्धयापितरोनसन्तीतिमत्वाश्राद्धकुर्वानस्यरक्तंपितरःपिबन्ति ॥