ब्रह्मचारिणो मासिकाब्दिकादि श्राद्धं मातापितृभिः कार्यम्
ब्रह्मचारिणा तु मातृपितृमातामहोपाध्यायाचार्यभिन्नानांशवनिर्हरणंदाहाद्यन्त्यकर्मचनकार्यम्
अन्याधिकार्यभावेमातृपितृमातामहाचार्याणांदाहादिकंब्रह्मचारिणाकार्यम् तत्रदशाहकर्मकरणेदशाहमाशौचम्
दाहमात्रकरणे एकाहम् तदाप्यस्यनित्यकर्मलोपोनास्ति अशुचित्वेप्याशौचिनामन्नंतेननभोक्तव्यम् तैः
सहनवस्तव्यम् तदुभयकरणेप्रायश्चित्तपुनरुपनयनेवक्ष्येते अन्येषांदाहादौकृच्छ्रत्रयंपुनरुपनयनंच
धर्मार्थंकेनचित्कस्यचित्सवर्णस्यदाहादिश्राद्धादिकरणेसंपत्त्यादिफलम् अयंसर्वोपिश्राद्धविधिः
शूद्राणाममन्त्रकःकार्यः अत्रकेचिद्वैदिकमन्त्रपाठ एवशूद्राणांवर्ज्यः पौराणमन्त्रास्तुपठनीया इत्याहुः
पौराणमन्त्रा अपिशूद्रेणस्वयंनपठनीयाः किंतुविप्रद्वारापठनीयाः वेदमन्त्रास्तुनविप्रद्वारापीतिसिन्धुः
एवं द्विजस्त्रियोपिव्रतोद्यापनादाविवसंकल्पमात्रंस्वयंकृत्वावैदिकमन्त्रादिप्रयुक्तंसर्वं श्राद्धंविप्रद्वाराकारयेयुरितिपारिजातकारमतम्
शूद्रस्यसदामश्राद्धमेव पित्रेनमःपितामहायनम
इत्येवमादिनानमोन्तनाममन्त्रेणनिमन्त्रणपाद्यासनगन्धपुष्पादिनाविप्रान्संपूज्यामंनिवेद्यसक्तुना
पिण्डदानादिकृत्वादक्षिणादानादिनाश्राद्धंसमाप्यसजातीयान्गृहसिध्द्पक्वान्नेनभोजयेत्
यत्तुसिन्धौनाममन्त्रेणावाहनाग्नौकरणकाश्यपगोत्रोच्चारपूर्वकपिण्डदानादिकंतर्पणादिकंपाकेन
पिण्डदानादिकंचोक्तंतत्सच्छूद्रविषयम् सप्तपुरुषंत्रिपुरुषंवापरंपरयास्नान
वैश्वदेवतर्पणादिकंशूद्रकमलाकरादिग्रन्थसंगृहीतंधर्मंनियमेनाचरन्सच्छूद्र उच्यते
एवं किरातयवनादिहीनजातीयानांविप्रेभ्य आमदानदक्षिणादानपूर्वकं
स्वस्वजातीयभोजनात्मकमेवश्राद्धम् राजकार्योनियुक्तस्यबन्धनिग्रहवर्तिनः ।
व्यसनेषुचसर्वेषुश्राद्धंविप्रेणकारयेत् १ अत्रप्रथमंजीवत्पितृकनिर्णय उक्तस्तत्रप्रसङगात्किंचिदधिकारविचारोप्युक्तः
इदानीं तु सर्वो ऽप्य् अधिकारक्रमविचारः सविस्तर उक्त इति तेनात्र पुनर्- उक्तिर् बालबोधनार्थत्वान् न दोषाय
इति श्रीमदनन्तोपाध्याय-सूनु-विरचिते धर्मसिन्धु-सारे श्राद्धाधिकार-दाहाद्य्- अधिकार-निर्णयः ॥