१३ दत्तकस्तुजनकपितुः

दत्तकस्तुजनकपितुःपुत्राद्यभावेजनकपितुः श्राद्धंकुर्याद्धनंचगृह्वीयात्

जनकपालकयोरुभयोःपित्रोःसंतत्यभावेदत्तकोजनकपालकयोरुभयोरपिधनंहरेत् श्राद्धं

चप्रतिवार्षिकमुभयोःकुर्यात्‌ दर्शमहालयादौतुद्वयोःपित्राद्योःश्राद्धंदेयम् तत्र

द्वयोःपित्राद्योःपृथक्‌पिण्डदानम् पित्रादिद्वयद्वयोद्देशेनैकैकोवापिण्डः एवं दत्तकस्यपुत्रोपि

दत्तकजनकस्यपुत्राद्यभावेस्वपितरंपितामहद्वयंप्रपितामहद्वयंचोच्चार्यदर्शादिकंकुर्यात्

तथैवधनंहरेत् एवं दत्तकपौत्रोपितज्जनककुलेप्रपितामहस्यपुत्राद्यभावेपितरंपितामहंचेकमुच्चार्य

प्रपितामहद्वयमुच्चार्यदर्शादिश्राद्धंकुर्यात्प्रपितामहस्यधनंचहरेत्

यद्येषांस्वसुभार्यास्वपत्यंनस्याद्रिक्थंहरेयुःपिण्डंचैभ्यस्त्रिपुरुषंदद्युरित्यादिरेक

पिण्डेद्वावनुकीर्तयेद्रहीतारंचोत्पादयितारंचातृतीयात्पुरुषादित्यादेश्चलौगाक्ष्यादिस्मृतिवचनात्

यदिजनकपालकयोरुभयोरपिपुत्रादिसन्ततिसत्त्वं तदादत्तक उभयोरप्यौर्ध्वदेहिकंवार्षिकादिकंचनकुर्यात्

पालकपितुरौरसपुत्राद्विभक्तेनदत्तकेनदर्शमहालयादिश्राद्धमात्रंपालकपित्रादिपार्वणोद्देशेनकार्यम्

अविभक्तस्यतुतदौरसकृतदर्शादिनैवदत्तकस्यदर्शादिसिद्धिरितिभाती ॥