१२ स्त्रीणांदाहाद्यधिकारिणः

अथस्त्रीणांदाहाद्यधिकारिणः अनूढायाःस्त्रियाःपिता तदभावेभ्रातादिः ऊढायास्तत्पुत्राभावेसपत्‍नीपुत्रः

तदभावेपौत्रप्रपौत्राः तदभावेपतिः तदभावेदुहिता तदभावेदौहित्रः तदभावेपत्युर्भ्राता तदभावेपत्युर्भ्रातृपुत्रः

तदभावेस्नुषा तदभावेपिता पितुरभावेभ्राता तदभावेभ्रातृपुत्रादयः पूर्वोक्ताः

अत्रसर्वत्रपुत्रभिन्नानांपुत्रासन्निधानात्पुत्राभावाद्वाकर्तृत्वविमिस्थितम्

तत्रयदिपुत्रासन्निधानात्कर्तृत्वं तदापुत्रभिन्नैर्दाहमारभ्यसपिण्डीकरणात्प्राचीनकर्मैवकार्यम्

नतुपुत्रभिन्नैःसपिण्डीकरणंकार्यम् पुत्राभावेत्वन्यैःसपिण्डीकरणमपिकार्यम् ।

तत्रापिसपिण्डादिभिर्नृपान्तैर्दाहमारभ्यदशाहक्रियाःकार्या एव ता एवपूर्वा इत्युच्यन्ते

तत एकादशाहमारभ्यसपिण्डीकरणान्तामध्यमसंज्ञास्तासुसपिण्डादीनांकृताकृतत्वम्

तदुर्ध्वा अनुमासिकसांवत्सरिकाद्यास्ता उत्तराख्याःसपिण्डादिभिर्न कार्या एव

इदंचतदीयवृत्त्यादिस्थावरधनस्यचरधनस्यवाग्रहणाभावे

तदन्यतरधनग्रहणेतुसपिण्डादिभिरपिमध्यमोत्तराख्या अपिक्रियाःकार्या एव

राज्ञातुमृतधननसत्त्वेतद्धनद्वारातत्सजातीयवर्णहस्तेनसर्वा अपिक्रियाःकारणीया एव

धनाभावेतुपूर्वान्ता एवावश्यंकारणीयानान्याः

सपिण्डादिनृपान्तभिन्नानांतुमृतस्यधनाभावेपिस्वधनेनैवसपिण्डीकरणान्तक्रियाकरणमावश्यकम्

मृतस्यधनंगृहीत्वाप्रेतकार्याकरणेनृपान्तानांतद्वर्णवधप्रायश्चित्तम्

पुत्राद्यैर्भ्रातृसंतत्यन्तैर्दौहित्रैश्चतत्पुत्रैश्चत्रिविधा अपिक्रियाधनग्रहणसत्त्वेतदसत्त्वेवापिकार्या एव

तत्रस्त्रीणामुत्तराः क्रियाम्रुताहन्येव नतुदर्शादौ भर्तृश्राद्धेनैवनिर्वाहस्मृतेः

पूर्वमध्यमाख्यास्तुपृथगेवस्त्रीणाम् केचित्पुत्रपत्योरभावेस्त्रीणांदौहित्रादिभिःसपिण्डीकरणरहिता

एवोत्तराःक्रियाःकार्याः सपिण्डीकरणंतुतासांनकार्यम् सपिण्डीकरनाभावेपि एवकोद्दिष्टविधिनावार्षिकादिकंकार्यमित्याहुः

ब्राह्मणस्त्वन्यवर्णानांनकुर्यात्कर्मपैतृकम् ।

कामाल्लोभाद्भयान्मोहात्कृत्वातज्जातितांव्रजेत् १ शूद्रेनापिब्राह्मणस्यनकार्यंपैतृकंक्वचित् ॥