११ मरणोन्मुखैर्धर्मपुत्रःकार्यः

यद्यप्यविभक्तस्यसंसृष्टस्यवाभ्रातुरेवधनग्रहाधिकारस्तथापिक्रियाधिकारःपत्‍न्या एव

विभक्तासंसृष्टेतुभ्रातरिधनाधिकारोपिपत्‍न्या एव पत्यभावेविभक्तासंसृष्टस्यकन्यापिण्डदाधनहारिणीच

तत्रापिविवाहितैवपिण्डदा धनहरात्वनूढाऽपि दुहितुरभावेदौहित्रोधनहारीपिण्डदश्च

दौहित्राभावेभ्राताभ्रातुरभावेभ्रातुःपुत्रः अविभक्तस्यसंसृष्टस्यचपत्‍न्यभावे भ्राता

संसृष्टोनामपूर्वं विभक्तोभूत्वापुनःस्वधनंभ्रातृधनैरेकीकृत्यैकपाकाद्युपजीवनः

तत्रसोदरासोदरसमवायेसोदर एव तत्रापि ज्येष्ठकनिष्ठयोःसत्त्वेकनिष्ठ एव

कनिष्ठभ्रातुरभावेज्येष्ठभ्रातैव कनिष्ठबहुत्वेमृतानन्तरस्तदभावेतदनन्तरादयः

एवं ज्येष्ठबहुत्वेमृतानन्तरक्रमेणैव सोदरभ्रातुरभावेसापत्‍नभ्राता अत्रापिज्येष्ठत्वादिविचारःपूर्ववदेव

केचित्तुदुहितृदौहित्रयोर्धनहारित्वेपिविभक्तासंसृष्टस्यदाहादिकंभ्रात्रैवकार्यम्

सगोत्रसद्भावेभिन्नगोत्रस्यतदनधिकारादित्याहुः भ्रातुरभावेभ्रातृपुत्रः तत्रापिसोदरभ्रातृपुत्रोमुख्यः

तदभावेसापत्‍नभ्रातृपुत्रः तदभावेपिता पितुरभावेमाता मात्रभावेस्नुषा तदभावेभगिनी

तत्रानुजाग्रजसोदरासोदराणांसमवायेभ्रातृवत् भगिन्यभावेभगिनीपुत्रः समवायेतद्वदेव

तदभावेपितृव्यतत्पुत्रादयःसपिण्डाः तदभावेसोदकाः तदभावेगोत्रजाः

तदभावेमातामहमातुलतत्पुत्रादयोमातृसपिण्डा अनुक्रमेण मातृसपिण्डाभावेस्वपितृष्वसृमातृष्वसृपुत्राः

तदभावेपितुःपितृष्वसृमातृष्वसृमातुलपुत्ररुपाःपितृबन्धवः एवं मातुः पितृष्वस्त्रादिपुत्ररुपमातृबन्धवः

पितृबन्धूनामभावेधिकारिणः तदभावेशिष्यः शिष्याभावेजामाताश्वशुरस्य श्वशुरोजामातुः

तदभावेसखा तदभावेविप्रस्यकश्चिद्धनहारी विप्रभिन्नस्यराज्ञाधनंगृहीत्वातेनधनेनान्यद्वा राकारणीयम्

अथवाविप्राद्यैर्मरणोन्मुखैर्धर्मपुत्रःकार्यः ॥