१० पिण्डीकरणः

कनिष्ठस्यसाग्निकत्वेसपिण्डीकरणमपिद्वादशेह्निकनिष्ठेनकार्यम्

औरसपुत्राभावेपुत्रिकासुतक्षेत्रजादयोद्वादशविधाःपुत्रा उक्तास्तथापिकलौतेषांपुत्राणांनिषेधादौरसपुत्राभावेदत्तक एवाधिकारी

मातापितृभ्यामन्यतरेणवाविधिपूर्वं दत्तःप्रतिग्रहीतृसवर्णोदत्तकः भार्यानुमत्यापत्युःपुत्रदातृत्वं तदप्यापदि

अत्यन्तापदितुभार्यानुमत्यभावेपि पत्‍न्याःमत्यनुमत्यैव अत्रविशेषविचारःप्रागुक्तः दत्तकाभावेपौत्रः

पौत्राभावे प्रपौत्रः अन्येत्वौरसाभावेपौत्रः तदभावेप्रपौत्रः प्रपौत्राभावे दत्तक इत्याहुः

उपनीतपौत्रसत्त्वेप्यनुपनीतस्याप्यौरसपुत्रस्यैवाधिकारः सचकृतचुडस्यैववर्षाधिकवयसःपूर्णत्रिवर्षस्यत्वकृतचूडस्यापि

अनुपनीतेनापिमन्त्रपाठपूर्वकमेव पित्रोरौर्ध्वदेहिकंसांवत्सरिकादिकंश्राद्धंचकार्यम्

अशक्तोत्वग्निदानमात्रंसमन्त्रकमनुपनीतेनकार्यम् अन्यत्त्वन्यद्वा रा एवं श्राद्धेपिदर्शमहालयादौसंकल्पमात्रंकार्यम्

अन्यदितरेण केचित्तूनत्रिवर्षेणचूडारहितेनापिदाहमात्रंसमन्त्रकंकार्यंशेषमन्येनेत्याहुः दत्तकस्तूपनीत एवाधिकारी

दत्तकाभावेप्रपौत्राभावेचभर्तुःपत्‍नीपत्‍न्याभर्ताचदाहाद्यौर्ध्वदेहिकंसांवत्सरिकश्राद्धादिकंचकुर्यात्

भर्त्तुरपिसपत्‍नीपुत्रसत्त्वेऽधिकारोन विदध्यादौरसःपुत्रोजनन्या और्ध्वदेहिकम् ।

तदभावेसपत्‍नीज इत्युक्तेः भार्ययापिसमन्त्रकमेवौर्ध्वदेहिकादिकंकार्यम्

अशक्तौत्वग्निदानमात्रंसमन्त्रकंकृत्वाशेषमन्येनकार्यम् श्राद्धे संकल्पमात्रंकृत्वाशेषमन्येन ॥