०८ प्रेतकर्मप्रतिप्रसवः

अथप्रेतकर्मप्रतिप्रसवः जीवत्पितृकः स्वमातुरपुत्रसापत्‍नमातुःस्वपुत्रसपत्‍नीपुत्ररहितभार्याया

अपुत्रपितृव्यस्यापुत्रमातामहमातामह्योश्चदाहादिप्रेतकर्माणिकुर्यात् अत्रापुत्रपदेनमुख्यगौणपुत्रपौत्रप्रपौत्राभावोविवक्षितः

मातुरौर्ध्वदेहिकमनुपनीतोपिजीवत्पितृकःकुर्यात् तत्रविशेषः ऊनत्रिवर्षश्र्चूडारहितश्चेद्दाहमात्रंसमन्त्रंककृत्वान्यदन्येनकारयेत्

यदातुकृतचूडःपूर्णत्रिवर्षोवा तदासर्वं समन्त्रकंप्रेतकर्मकुर्यात् ब्रह्मचारीतुपित्रोर्मातामहस्यचान्त्यकर्मकुर्यान्नान्यस्य

भर्तृदौहित्रयोःसत्त्वेभर्तैवपत्‍न्यादाहादिकुर्यात् मुण्डनंतुभर्तुर्न एवमपुत्रस्यपत्‍नीदौहित्रयोःसत्त्वेपत्‍न्येवपत्युःकुर्यात्

तत्रदाहमात्रंसमन्त्रकंकृत्वान्यत्संकल्पमात्रंस्वयंविधायब्राह्मणद्वाराकारयेत् भर्तृसपत्‍नीपुत्रयोःसत्त्वेसापत्‍नपुत्र

एवकुर्यान्नभर्ता सपत्‍नीपुत्रदौहित्रयोःसत्त्वेसपत्‍नीपुत्र एव अपुत्रयोर्विधवाविधुरयोर्भ्रातृपुत्रदौहित्रयोः

सत्त्वेदौहित्र एवाधिकारीतिबहवः विधवाया भर्तुर्भ्रातृपुत्र एवविधुरस्यस्वभ्रातृपुत्र एवेतिजीवत्पितृकनिर्णयेभट्टाः

अपुत्रस्य पत्‍नीभ्रातृपुत्रयोःसत्त्वेपत्‍न्येव एवं पुत्रासन्निधौपौत्रादेःपितामहपितामह्याद्यौर्ध्वं देहिकाद्यधिकारः

इत्थंपित्र्यकर्ममुण्डनप्रेतकर्माद्यधिकारांनधिकारौजीवत्पितृकस्यप्रपञ्चितौ अत्रविषयभेदाद्वालबोधार्थत्वाच्चापुनरुक्तिर्नातिदोषाय

सपिण्डानांसगोत्रसपिण्डमरणेसकृत्सकृत्तिलाञ्जलिदानंविहिज्जीवत्पितृकेणापिकार्यम्

एवं मातामहाचार्यादिभ्योपि इति जीवत्पितृकनिर्णयः ॥