०३ सपिण्डकंमातामहश्राद्धंकुर्यात्

आश्विनशुक्लप्रतिपदिदौहित्रोजीवत्पितृकःसपिण्डकंमातामहश्राद्धंकुर्यात्

तथाभ्रातृपुत्रोऽपुत्रस्यपितृव्यस्यप्रत्यब्दश्राद्धं सपिण्डंकुर्यात् एवं कनिष्ठभ्राताप्यपुत्रज्येष्थभ्रातुःप्रत्यब्दम्

तथासपत्‍नीपुत्रःसापत्‍नमातुःश्राद्धम् एवं दौहित्रोऽपुत्रस्यमातामहस्यप्रत्यब्दम् इत्थंचपितृव्यादिश्राद्धचतुष्टयेजीवत्पितृकस्याप्यधिकारः

पितृव्यभ्रात्रादीनामपुत्राणांपत्‍नीसावेसैवाधिकारिणीनतुभ्रातृपुत्रादेःश्राद्धाधिकारः एवं पतिरेवपुत्राभावेभार्याश्राद्धंकुर्यात्

सपत्‍नीपुत्रसावेतुस एवकुर्यान्नभर्ता दौहित्रभ्रातृतत्पुत्रयोःसत्त्वेमृतस्यविभक्तत्वेदौहित्र एव

अविभक्तत्वेभ्रातृपुत्रःकेचित्‌भ्रातृतत्पुत्रयोःसत्त्वेभ्रात्रैवश्राद्धंकार्यमित्याहुः तथा जीवत्पितृकस्य

पितृपितामहादिमनुष्यपितृतर्पणनिषेधेप्यग्निष्वात्तादिदेवपितृतर्पणनिषेधाभावात्स्नानाङग

पितृतर्पणेब्रह्मयज्ञाङगभूतदेवरुपिपितृतर्पणेचाधिकारोस्त्येव एवं यदीश्राद्धेदिकारस्तदीयश्रद्धाङ्‌गतर्पणेप्यधिकारः

जीवत्पितापिकुर्वीततर्पणंयमभीष्मयोः । श्राद्धाङ्‌गतर्पणभिन्नतर्पणंजीवत्पितृकेणतिलैर्नकार्यम्

श्राद्धप्रयोगमध्येवाजानुन्यग्भावोनीवीबन्धश्चनकार्यः

नद्यादौस्नात्वातर्पणान्तेसमन्त्रकंवस्त्रनिष्पीडनंविहितंतन्नकार्यम्‌तथाखङगमौक्तिकहस्तेन

कर्तंव्यंपितृतर्पणमितिविहितंखङगधारणंनकार्यम्

अपसव्यंद्विजाग्र्‍याणांपित्र्येकर्मणिकीर्तितम् । आप्रकोष्ठात्तुकर्तव्यमेतत्पितरिजीवति १

जीवतिसंन्यस्तादिरुपेपितरिमृतमातृमातामहाकोपिपुत्रःपितुःपितृपितामहप्रपितामहानां

पितुर्मातृपितामहीप्रपितामहीनांपितुर्मातामहमातृपितामहमातृप्रपितामहनामितिपार्वणत्रयमेकोद्दिष्टगणंचस्वमातरं

पितुःपत्‍न्या इति स्वपितृव्यंपितुर्भ्रातुरितिस्वमातामहंचपितुःश्वशुरस्येत्येवमादिना

पितृसंबन्धपुरस्करेणैवोद्दिश्यमहालयश्राद्धंकुर्यात् एवं दर्शादिषूह्यम् पितुःसंन्यासाभावेपितीर्थश्राद्धंजीवत्पितुरेवमेव

एवं वृद्धिश्राद्धेप्यूह्यं ब्रह्मयज्ञान्ते नित्यंपितृतर्पणमपिसंन्यस्तादिरुपजीवत्पितृकेणैवमेवकार्यमित्याहुः ॥