०२ श्राद्धादिनिर्णयंवक्तुमधिकारः

तस्त्रतावच्छ्राद्धादिनिर्णयंवक्तुमधिकारनिर्णयायजीवत्पितृकाधिकारोविविच्यते पादुकेचोत्तरीयंचतर्जन्यांरुप्यधारणम् ।

नजीवत्पितृकःकुर्याज्ज्येष्ठेभ्रातरिजीवति १ अत्रपादुकेकाष्ठमय्यौ उत्तरीयं

सग्रन्थिपरिमण्डलंवस्त्रमेकद्वयङ्‌गुलादिविस्तृतंसूत्रकृतंपरिमण्डलरुपंवा उत्तरीयस्थानापन्नं

स्मृत्युक्तंतृतीययज्ञोपवीतंवाजीवत्पितृकेणजीवज्ज्येष्ठभ्रातृकेणच नधार्यमितितात्पर्यम् ।

इत्यादिनासर्वकर्मस्वेकवस्त्रत्वनिषेधात् पितरिपितामहेज्येष्ठभ्रातरिचाकृताधानेजीवतिपुत्रपौत्रकनिष्ठभ्रातृभिराधानं

नकार्यम् ज्येष्ठभ्रातर्यकृतविवाहेकनिष्ठेनविवाहोनकार्यः अत्रविशेषःपूर्वार्धे उक्तः

एवं पित्रादिष्वकृतसोमयागेषुजीवत्सुपुत्रादेःसोमेनाधिकारः एवं पूर्णमासेष्टौदर्शेष्टावग्निहोत्रहोमेचपित्राद्यैरनाग्ब्धेपुत्रादेर्नादिकारः

एवं संन्यासेपि कनिष्ठस्यसोदरस्यैवदोषोनभिन्नोदरस्यभ्रातुः पित्रादेराज्ञायांपुत्रादेर्नदोष‍ इति केचित्‌

अधिकारिणिपितरिसत्याज्ञायामपिदोषः पातित्यजात्यन्धत्वादिदोषैरनिधकारिण्याज्ञयानदोषः

पातित्यादावाज्ञांविनापिनदोष इत्यपरे तथाजीवत्पितृकस्यपितृकृत्येषुदर्शादिश्राद्धतर्पणपैतृकदानेषुनाधिकारः अत्रविशेषः

स्वापत्यसंस्कारस्वद्वितीयविवाहादिनिमित्तकनान्दीश्राद्धेचातुर्मास्यान्तर्गतपितृयज्ञेसोमाङगतृतीयसवनस्थपितृयज्ञेजीवत्पितुरधिकारः

पिण्डपितृयज्ञेहोमान्तःपिण्डपितृयज्ञोनारम्भोवापिण्डपितृयज्ञस्येतिपक्षद्वयम्

पितुःपित्राद्युद्देशेनपिण्डदानमितितृतीयःपक्षःक्वचित् एवमष्टकादिविकृतिष्वपिपक्षत्रयम् गयांप्रसङगतोगत्वामातुःश्राद्धंसुतश्चरेत् ।

जीवत्पितामातुःश्राद्धमुद्दिश्यगयां नगच्छेत् महानदीषुसर्वासुतीर्थेचप्राप्तेजीवत्पितृकःपितुःपितृमात्राद्युद्देशेनश्राद्धंकुर्यात्

नवम्यामन्वष्टकाश्राद्धंक्षयाहेमातुःप्रत्यब्दश्राद्धंचसपिण्डकमेवजीवत्पितृकःकुर्यात्

तथासंन्यस्तेतातेपतितेचतातेजीवत्यपिसतिदर्शश्राद्धमहालयसंक्रान्तिग्रहणादिश्राद्धानिसर्वाणिपितुः

पित्राद्युद्देशेनजीवत्पितृकेणकार्याणि एतानिचसांकल्पिकविधिनापिण्डरहितानिकार्याणि

अन्वष्टक्यादाविवपिण्डदानेविशेषवचनाभावात् ॥