६१ ग्रंथ प्रयोजनः

इत्थंगर्भाधानादुद्वाहान्ताःसमस्तसंस्काराः । सपरिकरनिर्णीता अस्मिस्तार्तीयपूर्वार्धे ॥

तत आह्निक आचारस्तत आधानादिकाःप्रकीर्णार्थाः । शान्तिकपौष्टिकमुख्यानित्यानैमित्तिकाश्चोक्ताः ॥

पूर्वपरिच्छेदकयोःकालः सामान्यतोविशेषाच्च । निर्णीतःसहकृत्यैस्तिथिमासद्येषुविध्युक्तैः ॥

नानापापेप्रायश्चित्तव्यवहारविस्तरश्चापि । उपदानमहादानादिविधिश्चोक्तोमयूरखादौ ॥

श्राद्धविधिःसाङ्गोप्याशौचेनिर्णीतिरन्त्यसंस्कारः । तार्तीयकस्योत्तरखण्डेग्रेसंप्रवक्ष्यन्ते ॥

मूलभूतानिपद्यानिविकृतानिक्वचित्कचित् । निर्विकाराण्यविनवान्यप्युक्तान्यत्रकानचित् ॥

मीमांसाधर्मशास्त्रज्ञाःसुधियोनलसाबुधाः । कृतकार्याःप्राङ्निबन्धैस्तदर्थनायमुद्यमः ७

येपुनर्मन्दमतयोऽलसा अज्ञाश्चनिर्णयम् । धर्मेवेदितुमच्छिन्तिरचितस्तदपेक्षया ८

निबन्धोयं धर्मसिन्धुसारनामासुबोधनः । अमुनाप्रीयतांश्रीमद्विठ्ठलोभक्तवत्सलः ९

प्रेम्णासद्भिर्ग्रन्थःसेव्यःशब्दार्थतःसदोषोपि । संशोध्यवापिहरिणासुदाममुनिसतुषपृथुकमुष्टिरिव ॥१०॥

श्रीकाश्युपाध्यायवरोमहात्माबभूवदिवद्दिजसार्वभौमः ।

तस्मादुपाध्यायकुलावं तसोयज्ञेश्वरोनन्त इमावभूताम् ११

यज्ञेश्वरोयज्ञविधानदक्षौदैवज्ञवेदाङ्गसुशास्त्रशिक्षः ।

भक्तोत्तमोऽनन्तगुणैकधामानन्ताह्वयोनन्तकलावतारः १२

एषोत्यजज्जन्मभुवं स्वकीयांताकौङ्कणाख्यांसुविरक्तिशाली ।

श्रीपाण्डुरंगेवसतिंविधायभीमातटेमुक्तिमगात्सुभत्तया १३ तस्यानन्ताभिधानस्योपाध्यायस्यसुतःकृती ।

काशीनाथाभिधोधर्मसिन्धुसार समातनोत् ॥

इति श्रीमत्काश्युपाध्यसूरिसूनयज्ञेश्वरोपाध्यायानुजानन्तोपाध्यायसूरिसुतकाशीनाथोपाध्यावावरचिते

धर्मसिं० तृतीय० परिच्छेदे पूर्वार्धः समाप्तः ॥