५७ अनिष्टफल्ह

अथानिष्टफल्ह दुष्टकिशुकवल्मीकपारिभद्राधिरोहणम् ।

तैलकार्पासपिण्याकलोहप्राप्तिर्विपत्तये १ विवाहकरणंस्वप्नेरक्तस्त्रग्वस्त्रधारणम् ।

स्रेतसाहरणंनेष्टंपक्वमांसस्यभोजनम् २ आदित्यस्याथचन्द्रस्यनिष्प्रभस्यावलोकनम्

नक्षत्रादेश्चपातस्यस्वपनेमरणशोककृत ३

अशोककरवीरपलाशानांपुष्पितानांस्वप्नेदर्शनेशोकःनौकारोहणेप्रवासः

रक्तवस्त्रगन्धधारिण्यास्त्रियालिङ्गनेमृत्युः घृततैलादिनाभ्यङ्गेव्याधिःकेशदन्तपातेधननाशःपुत्रशोकोवा

खरोष्ट्रमहिषैर्यानेतद्युक्तरथारोहणेवामृत्युःकर्णनासाकरादिच्छेदेपङ्कमज्जनेतैलाभ्यङ्गे

विषभक्षणेप्रेतालिङ्गनेनलदमालिनोदिगम्बरस्ययानेकृष्णपुरुषदर्शनेच मृत्युः ॥