५६ स्वप्नविचारः

अथस्वप्नविचारः स्वप्नोद्विविधः इष्टफलोऽनिष्टफलश्चेति

तत्रसामान्यत इष्टफलोयथा नदीसमुद्रतरणमाकाशगमनंतथा ।

गृहनक्षत्रमार्तण्डचन्द्रमण्डलदर्शनम् १ हर्म्यस्यारोहणंचैवप्रासादशिरसोपिवा

स्वप्नेचमदिरापानंवसामांसस्यभक्षणम् २ कृमिविष्ठानुलेपश्चरुधिरेणाभिषेचनम् ।

भोजनंदधिभक्तस्यश्वेतवस्त्रानुलेपनम् ३ रत्नान्याभरणादीनिस्वप्नेदृष्ट्वाप्रसिद्ध्यति ।

देवताविप्रपृथ्वीशान्र्पशस्ताभरणाङ्गनाः ४ वृषेभपर्वतक्षीरफलिवृक्षाधिरोहणम् ।

दर्पणामिषमाल्याप्तिशुक्लपुष्पाम्बराश्रितान्‍ । द्रष्टुःस्वप्नेर्थलाभःस्याव्द्याधिमोक्षश्चजायते ॥