५५ नचैवं घटस्फोटविधिव्यर्थ

नचैवं घटस्फोटविधिव्यर्थ इति वाच्यम् तस्यपारलौकिकदोषपरिहारार्थत्वात्

लोकबहिष्कृतपातकिविषयेसंभाषणादिसंसर्गस्यपातित्यहेतुत्वाभावेऽ

पिपरत्ननरकजनकदोषहेतुत्ववत्पतितेनसहैककुलत्वसंसर्गस्यापीहपातित्यादिदोषहेतुत्वाभावेऽपिपारत्रिकदोषहेतुत्वात्

अत्रचघटस्फोटविधेरवार्थापत्तिविधायमानत्वात् तथाच

पारत्रिकदोषपरिहारार्थघटस्फोटविधिरितिनतद्विधिबलेनपतितमात्रस्यकुलेबहिष्कारः

सत्राख्यंयज्ञः कलौवर्ज्यः ब्रह्महत्त्यादिमहापातकेषुप्रायश्चित्तेननरकनिवृत्तिर्नभवतिकिंत्विहलोकेव्यवहार्यतामात्रंकलौभवति

स्वर्णस्तेयादिषुतुप्रायश्चित्तेननरकनिवृत्तिर्व्यवहार्यताच

केचित्तुरहस्यकृतेषुमहापापेषुरहस्यप्रायश्चित्तंकलौनोपदेष्टव्यमित्याहुः

विप्रादिस्त्रीसंभोगेन भ्रष्टानांशूद्रादीनांप्रायश्चित्तेऽपिसंसर्गोनिषिद्धः यज्ञेपशुमारणंसोमविक्रयश्च विप्राणांकलौवर्ज्यः

ज्येष्ठादिसर्वभ्रातृनांसमभागःकलौस्मृतः । आततायिद्विजानांनोधर्मयुद्धेऽपिहिंसनम् १

अब्धौनौयातुद्विजस्यप्रायश्चित्तेऽपिसंसर्गोन गवार्थेब्राह्मणार्थेचप्राणत्यागःकलौनहि ।

द्विजानांगोपशुद्रदौबोज्यान्नत्वं कलौनहि १ शिष्यस्यगुरुपत्नीषुनचिरंवासशीलता ।

आपदिक्षत्रवैश्यादिवृत्तिंविप्रःकलौत्यजेत् २ कलौद्विजोनहिभवेदश्वस्तनिकजीविकः ।

द्वादशाब्दं गुरौवासंमुखाग्निधमनक्रियाम् ३ यतेर्भिक्षांसर्ववर्णेकलौत्रीणिविवर्जयेत् ।

नवोदकनिषेधंचदक्षिणांगुरुवाञ्छिताम् ३ वृद्धरुग्णादिमरणंजलाग्निपतनादिभिः ।

गोतृप्तिमात्रेभूमिष्ठेपयस्याचमनक्रिया‍ ५ पितृवादेसाक्षिदडंकलौपञ्चविवर्जयेत् ।

घृतदुग्धादिभिःपक्वमन्नंशूद्रात्कलौत्यजेत् ६ भिक्षामटन्यतीरात्रौनवेसद्गहिणांगृहे ।

विधूमसन्नमुसलेकालेभिक्षांकलौत्यजेत् ७ चत्वार्यब्दसहस्त्राणिचत्वार्यब्दशतानिच ।

कलेर्यदागमिष्यन्तितदात्रेतापरिग्रह ८ संन्यासश्चनकर्तव्योब्राह्मणेनविजानता ।

त्रेतापरिग्रहःसर्वाधानम् अर्धाधानंस्मृतंश्रौतस्मार्ताग्न्योस्तुपृथककृतिः सर्वाधानंतयोरैक्यकृतिःपूर्वयुगाश्रया ९

अस्यापवादः यावद्वर्णविभागोऽस्तियावद्वेदःप्रवर्तते । संन्यास्चाग्निहोत्रंचतावत्कुर्यात्कलौयुगे १०

इति शपथाःशकुनाःस्वप्नाःसामुद्रिकमुपश्रुतिः । देवपूजोपहारादेःसंकल्पःकार्यसिद्धये १

प्रश्नोत्तरंकालविदांसंभवन्तिकलौक्वचित् । इति लोकार्याकार्यनिर्णयः ॥