५४ कलौनिषिद्धानि

अथकलौनिषिद्धानि समुद्रयात्रास्वीकारःकमण्डलुविधारणम् द्विजानामसवर्णासुकन्यासूपयमस्तथा १

देवराद्यैःसुतोत्पत्तिर्मधुपर्केपशोर्वधः मांसदानंतथाश्राद्धेवानप्रस्थाश्रमस्तथा २

दत्ताक्षतायाःकन्यायाः पुनर्दानं परस्यच । दीर्घकालंब्रह्मचर्यनरमेधाश्वमेधकौ ३ महाप्रस्थानगमनंगोमेधश्चतथामखः ।

इमान्धर्मान्‌कलियुगेवर्ज्यानाहुर्मनीषिणः ४ मद्यंवर्ज्यमहापापेमरणान्तविशोधनम् ।

सौत्रामण्यादियज्ञेपिसुरापात्रग्रहस्तथा ५ मद्यभक्षादिवामाद्यागमस्यतुनमानता ।

मीमांसाद्वितयेसर्वशिष्टैश्चतनादरात् ६ औरसोदत्तकश्चैत्तौपुत्रौकलियुगेस्मृतौ ।

अन्यानदशविधान पुत्रान्क्रीताद्यान्वर्जयेत्कलौ ७ कौस्तुभेस्वयंदत्तस्तृतीयोपिकलौविहित

इति नवैवकलौनिषिद्धा इत्युक्तम् कलियुगेब्रह्महन्त्रादेरेवाव्यवहार्यत्वादिरूपंपातित्यम्

तत्संसर्गिणस्तुनरकहेतुदोषसत्त्वेपिपातित्यंनास्ति संसर्गदोषःपापेष्वितिकलिवर्ज्येषुवचनात्

कृतेसंभाष्यपततित्रेतायास्पर्शनेनतु । द्वापरेत्वन्नमादायकलौपततिकर्मणा १ इति वचनाच्च

ब्रह्महननादिकर्मणैवपातित्यंनसंसर्गमात्रेणेतितदर्थात्

इदंचलोकेष्वबहिष्कृतपातकिषुलोकविद्विष्टत्वेनापरिहार्यसंसर्गेपातित्याभावपरम्

नहिलोकेष्वबहिष्कृतानांप्रच्छन्नाभक्ष्यभक्षणापेयपानागम्यागमनादिपातकवतांतज्ज्ञानवतातिशिष्टेनापिसंभाषणादिसंसर्गोनरकहेतुरपि

परिहर्तुंशक्यते लोकविद्वेषापातात लोकबहिष्कृतपापिनांसंसर्गस्तुपातित्यहेतुरेवतथैवशिष्टाचारादितिमेभाति

अत एव त्यजेद्देशंकृतयुगेत्रेतायांग्राममुत्सृजेत् । द्वापरेकुलमेकंतुकर्तारंतुकलौयुगे १ इति वाक्येकर्तृत्यागोविधीयते

त्यागोहिसंसर्गपरिहार एव

किंचानेनवाक्येनयत्रकुलादौब्रह्महत्यादिपातकीनिष्पद्यतेतत्कुलादिकंद्वापरादावेवबहिष्कार्यंनतुकलौकुलादेर्बहिष्कारः

किंतुकर्तुरेवकलौबहिष्कार इति प्रतिपाद्यते

नचैतद्वाक्यविरोधिवाक्यान्तरंपतितसगोत्रसपिण्डादीनांकर्मानर्हत्वासंव्यवहार्यत्वप्रतिपादकंकापिग्रन्थे उपलभ्यते

यत्तुनिर्णयसिन्धौघटस्फोटप्रकरणेगृहेषुस्वैरमापद्येरन

इति वसिष्ठवचनसामर्थ्यतपात्रनिनयनात्प्राक्‌पतितज्ञातीनांधर्मकार्येष्वधिकारो

नास्तीत्यपरार्कव्याख्यानमुपन्यस्तंतन्नसर्वपतितविषयम् किंतु

घटस्फोटार्हप्रायश्चित्तानिच्छुपतितविषयम् अन्यथापात्रनिनयनात्प्रागितिनवदेत् प्रायश्चित्तात्प्रागित्येववदेत्

कर्तारंतुकलौयुगे इत्यादिप्रत्यक्षवचनेनविरोधेर्थापत्तिमूलकस्यसर्वपतितविषयककुलबहिष्कार

वर्णनस्यपुरुषव्याख्यानरूपस्याप्रामाण्यापाताच्चेतिभाति इति संक्षेपः ॥