५३ कलियुगेकार्याकार्यविवेकः

अथकलियुगेकार्याकार्यविवेकः गीतागङ्गातथाविष्णुःकपिलाश्वत्थसेवनम् ।

एकादशीव्रतंचैवसप्तमंनकलौयुगे १ विष्णुंशिवं वाभजतांगुरोःपित्रोश्चसेविनाम् ।

गोवैष्णवमहाशैवतुलसीसोविनामपि २ नस्यात्कलिकृतोदोषःकाश्यांनिवसतामपि ।

कलौगुरूणांभजनमीशभक्त्यधिकंस्मृतम् ३ जपादौयत्रयासंख्याकलौसास्याच्चतुर्गुणा ।

कलौदानंमहाश्रेष्ठंशिवविष्णोश्चकीर्तनम् ४ कृतेयद्दशभिर्वर्षैस्त्रेतायांहायनेनतु ।

द्वापरेतत्तुमासेन अहोरात्रेणतत्कलौ ५ प्रथमस्कन्धे

कुशलान्याशुसिद्ध्यन्तिनेतराणिकृतानियदितिकलौपुण्यकर्मणांसंकल्पेऽपिसिद्धिः

पापानांत्वाचरणादेवेत्युक्तम् स्मृत्यन्तरविरोधेतुकलौपाराशरस्मृतिः ।

ध्यायन्कृतेयजन्यज्ञैस्त्रेतायांद्वापरेऽर्चयन् । यदाप्नोतितदाप्नोतिकलौसंकीर्त्यकेशवम् १

इति हेमाद्रौव्यासवचनम् अत्रकृतयुगाद्यधिकरणध्यानादिफलार्थेकल्यधिकरणंकीर्तनंविधीयत

इति वाक्यार्थःकौस्तुभकर्तृपितामहैर्भक्तिनिर्णयेविस्तरेणनिरूपितः हेमाद्रौ कलिसभाजयन्त्यार्यागुणज्ञाः सारभागिनः ।

यत्रसंकीर्तनेनैवसर्वःस्वार्थोभिलभ्यते १ इति श्रीभागवतवचनमुदाह्रत्यसंकीर्तनेनहरिसंकीर्तने नेत्यर्थ

इति हेमाद्रावेवव्याख्यातम् कृष्णवर्णत्विषाकृष्णंसाङ्गोपाङ्गास्त्रपार्षदम् । यज्ञैःसंकीर्तन प्रायैर्यजन्तिहिसुमेधसः १

यज्ञादिस्वस्वाचारमाचरद्भिरपिकालेषुसंकीर्तननिष्ठौर्भाव्यमित्याशय इति कौस्तुभे

अनेनचतुर्वर्गफलंनारायणाश्रयणमात्रेणभवतीतिसिद्धम् यावैसाधनसंपत्तिः पुरुषार्थचतुश्टये ।

त्याविनातदाप्नोतिनरोनारायणाश्रयः १ इति भारतोक्ते ॥

श्रीभागवतेऽपि धर्मार्थकाममोक्षाख्यय इच्छेच्छ्रेय आत्मनः ।

एकंह्येवहरेस्तत्रकारणंपादसेवनम् १ इति अत्र एकपदावधारणादिपदैरन्यसाधनानपेक्षत्वं भक्तियोगस्योच्यते

ज्ञानयोगादेश्चहरिपादसेवनसापेक्षत्वं ध्वन्यते तथाचस्पष्टमेकादशादौ तस्मान्मद्भक्तियुक्तस्ययोगिनोवैमदात्मनः ।

नज्ञानंनचवैराग्यंप्रायःश्रेयोभेवेदिह १ यत्कर्मभिर्यत्तपसाज्ञानवैराग्यतश्चयत् । योगेनदानधर्मेणश्रेयोभिरितरैरपि २

सर्वमद्भक्तियोगेनमद्भक्तोलभतेञ्जसा । स्वर्गापवर्गमद्धामकथंचद्यदिवाञ्छति ३

इति श्रेयःस्रुतिंभक्तिमुदस्यतेविभोक्लिश्यन्तियेकेवलबोधलब्धये ।

तेषामसोक्लेशल एवशिष्यतेनान्यद्यथास्थूलतुषावघातिनाम् इत्यादिपरसहस्त्रवचनानि

ज्ञानयोगस्यभगवदाराधनंतत्प्रसादंचविनैवसिद्धिरितिक्वापिकेनाप्यनुक्तेश्च

सर्वापेक्षाचयज्ञापिश्रुतेरश्ववदित्यधिकरणेज्ञानोत्पत्तौयज्ञादिसर्वसाधनापेक्षोक्तेश्च

किंचभक्तियोगेदुराचारिनोपिदृढवैराग्यरहितस्याप्यधिकारोगम्यते अपिचेत्सुदुराचारोभजतेमामनन्यभाक्‍ ।

साधुरेवसमंतव्यः सम्यग्व्यवसितोहिसः १ क्षिप्रंभवतिधर्मात्माशश्वच्छांतिनिगच्छति ।

कौन्तेयप्रतिजानीहिनमेभक्तःप्रणश्यति २ ननिर्विण्णोनातिसक्तोभक्तियोगोस्यसिद्धिदः ।

इत्यादिवचनेभ्यःनैवं दुराचारिणापिदृढवैराग्यादिसाधनचतुष्टयसंपत्त्यभावेपि

वेदान्तश्रवणाद्यनुष्ठितौज्ञानोत्पत्तिर्भवतीतिक्वाप्युपलभ्यते नचयथोक्ताधिकारसंपत्ति

विनानुष्ठितंसाधनंकिमपिफलायकल्पते तस्मात्सर्वथासर्वैः

कलौश्रीहरिपादसेवनादिभक्तियोगाश्रयणमेवकर्तव्यमितिसिद्धम् ॥