५२ कर्माङ्गदेवताः

अथकर्माङ्गदेवताः विवाहस्याग्निर्देवता तेनविवाहाङ्गभूतस्वस्तिवाचनाद्यन्तेकर्माङ्गदेवताग्निःप्रीयतामितिवदेत्

औपासनेऽग्निसुर्यप्रजापतयःस्थालीपाकेऽग्निः गर्भाधानेब्रह्मा पुंसवनेप्रजापतिः सीमन्तेधाता जातकर्मणि मृत्युः

नामकर्मनिष्क्रमणान्नप्राशनेषुसविता चौलेकेशिनः उपनयने इन्द्रश्रद्धामेधा अन्तेसुश्रवाः पुनरुपनयनेऽग्निः

समावर्तनस्येन्द्रः उपाकर्मणिव्रतेषुचसविता वास्तुहोमेवास्तोष्पतिरन्तेप्रजापतिः

आग्रयणे आग्रयणदेवताःसर्पबलेःसर्पाः तडागादीनावरुणः ग्रहयज्ञे आदित्यादिनवग्रहाः

कूष्माण्डहोमेचान्द्रायणे अग्न्याधानेचाग्न्यादयः अग्निष्टोमस्याग्निः अन्येष्विष्टकर्मसुप्रजापतिरिति ॥