५० आहुतिप्रमाणम्

कर्षप्रमाणमाज्यादिलाजामुष्टिमितामताः अन्नंग्राससमंग्राह्यंकन्दानामष्टमोशकः १ तिलसक्तुकणादीनामृगीमुद्राप्रमाणतः ॥

ताम्रपात्रेणपिहितेताम्रपात्रादिकेशुभे २ अग्निप्रणयनंकार्यमृन्मयेराजतादिके ।

उत्तमःश्रोत्रियागारान्मध्यमःस्वगृहादितः ३ नाप्रोक्षितमिन्धनग्रावादध्यात् सदोपवीतिनाभाव्यंसदाबद्धशिखेनच ।

सदेतिकर्माङ्गतापुरुषार्थताच तेनकर्मकालेशिखाबन्धाद्यभावेप्रायश्चित्तद्वयमन्यदैकमेव दशविधादर्भा उक्ताः

वटप्लक्षबिल्ववैकङ्कतचन्दनदेवदारुसरलवृक्षजा अपिकचितसमिधः प्रभुःप्रथमकल्पस्ययोऽनुकल्पेनवर्तते

सनाप्नोतिफलंतस्यपरत्रेतिश्रुतिःस्मृतिः १ बह्लल्पंवास्वगृह्योक्तंयस्ययत्कर्मचोदितम् । तस्यतावतिशास्त्रार्थेकृतेसर्वःकृतोभवेत् ।