४५ गायत्रीपुरश्चरणप्रयोगः

देशयालौसंकीर्त्यकरिश्यमाणगायत्रीपुरश्चरणेऽधिकारसिद्ध्यर्थंकृच्छ्रत्रयममुकप्रत्याम्नायेनाहमाचरिष्ये

इति संकलप्यहोमादिप्रत्याम्नायविधिनाकृच्छ्राण्यनुष्ठायामुकशर्मणोममगायत्रीपुरश्चरणेऽनेनेकृच्छ्रत्रयानुष्ठानेनाधिकारः

असिद्धिरस्त्वितिविप्रान्वदेत् विप्रा अधिकारसिद्धिरस्त्वितिब्रूयुः

ततःकरिष्यमाणपुरश्चरणाङ्गत्वेनविहितंगायत्रीजपादिकरिष्ये इति संकल्प्यस्वयंविप्रद्वारावाकुर्यात

तद्यथा सप्रणवव्याह्रतिकगायत्र्या अयुतंजप्त्वा आपोहिष्ठेतिसूक्तं एतोन्विन्द्रमितितिस्त्रः ऋतंचेतिसूक्तंस्वस्तिन

इत्याद्याःस्वस्तिमतीःस्वादिष्टये-त्याद्याःपावमानीश्चसर्वाःप्रत्येकं दशवारंस्वयमन्यद्वा रावाजपित्वा

तत्सवितुरित्यस्याचार्यमृषिंविश्वामित्रंतर्पयामि गायत्रीछन्दस्त० सवितारंदेवतां०

इति तर्पणंकृत्वारुद्रंनमस्कृत्यकदुद्रायेत्यादीनिरुद्रसूक्तानिजपेत्

ततोदिनान्तरेदेशकालौसंकिर्त्यममसकलपापक्षयद्वा राश्रीपरमेश्वरप्रीत्यर्थंचतुर्विंशतिलक्षात्मकगायत्रीपुरश्चरणंस्वयंविप्रद्वारावाकरिष्ये

तदङ्गत्वेनस्वस्तिवाचनंमातृकापूजनंनादीश्राद्धं विप्रद्वाराजपेजपकर्तृवरणंचकरिष्य इति संकल्पः

संकल्पस्यापि ऋत्विक्‌कतृकत्वेऽमुकशर्मणोयजमानस्यसकलपापक्षेत्यादियजमानानुज्ञयाकरिष्ये

एवं पूर्वत्रापिसंकल्प ऊह्यः नान्दीश्राद्धान्तेसविताप्रियतामिति

गायत्रीपुरश्चरणेजपकर्तारंत्वांवृणे इति विप्रमेकैकंवृणुयात् वस्त्रादिभिःपूजयेत् ॥