अथकपोतप्रवेशमधुवल्मीकोत्पत्तिपिङ्गलास्वरकाकवैकृतग्राम्यारण्यादिमृगपक्षिविकारेशान्तिः
देवाःकपोत इति पञ्चर्चसूक्तंसहस्त्रंशतंवाजपित्वा यत
इंद्रभयामहेस्वस्तिदाविशस्त्र्यम्बकमितिमन्त्रैर्हुत्वाव्याह्रतिभिरष्तोत्तरशतंतिलहोमंकुर्यात् अथवापञ्चविप्रैःक्रमेणदेवाःकपोत
इति सूक्तंसुदेवो असीत्यृचंकनिक्रददितिशाकुन्तसूक्तंनमोब्रह्मणेनमो इति मन्त्रंचसहस्त्रादिसंख्ययाजप्त्वोपनिषदश्चपठित्वाव्याह्रतिभिस्तिलहोमंकुर्यात् ॥