३३ धनाद्यर्घगमनम्

अथधनाद्यर्घगमनम् श्रुतिद्वयाश्विपुष्यान्त्यानुराधामृगहस्तभे ।

पुनर्वसौगोचरेष्टप्रदवारेव्रजेन्नरः १ अभिजिद्भंगमेश्रेष्ठंदक्षिणाशांविनाक्षणः मघाचित्रात्रयाश्लेषाभरण्यार्द्राःसकृत्तिकाः २

पूर्वाभाद्राचनेष्टाःस्युःप्रयाणेजन्मभंतथा । त्यजेद्रिक्तांपर्वषष्ठ्यष्टमीद्वादशिकास्तिथीः ३

कृत्तिकाभरणीपूर्वामघानांघटिकाःक्रमात् । एकविंशतिसप्ताथषोडशैकादशत्यजेत् ४

ज्येष्ठाश्लेषाविशाखासुस्वात्यांचापिचतुर्दश । भृगोर्मतेसंकटेऽपिसर्वास्वातीमघांत्यजेत् ५ भरण्याः

पूर्वमर्धचचित्राश्लेषांतकोत्तरम् ॥