३१ गृहारम्भः

गृहारम्भः वैशाखेफाल्गुनेपौषेश्रावणेमार्गशीर्षके ।

गृहारम्भप्रवेशौस्तःस्तम्भोच्छ्रायश्चशस्यते १ ज्येष्ठकार्तिकमाघांश्चशुबदान्प्राहनारदः ।

तृणेगेहंसर्वमासेपौषे उख्यगृहंनहि २ हस्तत्रयध्रुवमृदुधनिष्ठाद्वयपुष्यभे ।

रिक्ता अर्ककुजौत्यक्त्वाग्रुहंकुर्याद्विशेदपि ३ शिलान्यासंचखातंचश्रुत्यधिक्रूरमित्रभैः

आश्लेषामूलपुष्यार्कमृगान्त्यध्रुवभैरपि ४ केन्द्राष्टमेपापहीनवेश्मकृत्यंस्थिरोदये ।

धनिष्ठापञ्चकेवर्ज्यःस्तम्भोच्छ्रायःसदाबुधैः ५ नेष्टामि सप्तसूर्यर्क्षादिष्टान्येकादशाष्टमात् ।

दशशिष्टानिनेष्टानिचक्रेस्युर्वृषवास्तुनि ६ यद्वा तुर्यात्पञ्चदशातूत्रयोविंशतिसंख्यकात् ।

वेदाब्धिपञ्चनेष्टानिगृहारम्भप्रवेशयोः ७ स्नानपाकस्वापवस्त्रभुजीनांपशुकोशयोः ।

देवानांचगृहान्कुर्यात्पूर्वादौमुख्यवेश्मनः ८ उदग्दिशंध्रुवमुखाज्ज्ञात्वाप्राचींप्रसाधयेत् ।

कोणाध्वभ्रमकूपद्वाःपङ्कस्तम्भद्रुमामरैः ९ विद्धादुष्टाद्वार्नदोषोगृहोच्चद्विगुणान्तरे ।

सूत्रंभित्तिशिलान्यासंस्तम्भस्यारोपणंतथा १० आग्नेयींदिशमारभ्यकुर्यादित्याहकश्यपः ।

अन्यवेश्मस्थितंदारुनान्येवेश्मनियोजयेत् ११ नूतनेनूतनंकाष्ठंजीर्णेजीर्णप्रशस्यते ।

द्वात्रिंशाधिकहस्तेचतृनागारेचतुर्मुखे १२ नतत्रचिन्तयेद्धीमान गुणानायव्ययादिकान् ॥