२६ शस्त्राणांघटनं

शस्त्राणांघटनंक्रूरमिश्राश्विमृगतीक्ष्णभे । शस्त्रंधार्यध्रुवक्षिप्रमृदुज्येष्ठाविशाखके १

सेवाकार्याक्षिप्रमैत्रध्रुवैर्ज्ञेज्यार्कभार्गवे । मन्देपिचेत्सेवकर्क्षस्वामिभान्नद्वितीयकम्‍ २

हस्तशट्कध्रुवश्रोत्ररेवतीपुष्यभेशुभम्‍ । पुनर्वसौचशिबिकागजाश्वादिषुरोहणम्‍ ३

राज्ञाविलोकनंक्षिप्रश्रुतिद्वयमृदुध्रुवे । नृत्यारम्भःपुष्यमृगध्रुवज्येष्ठाधनिष्ठयो ४

अनुराधाशतभिषग्घस्तेस्याच्छुभवासरे । विपणिःस्यान्मृदुक्शिप्रध्रुवैरिक्ताकुजान्विना ५

क्रयःकार्योश्विनीस्वातीश्रवश्चित्राशतान्त्यभे । विक्रयोभरणीपूर्वात्रयाश्लेषासुमिश्रभे ६

सेतुबन्धोध्रुवेस्वात्यांजीवार्कशनिवासरे । नानापशुक्रियाहस्तपुष्यार्द्रामृगमिश्रभे ७

पुनर्वसौधनिष्ठाश्विपूर्वाज्येष्ठाशतान्त्यभे । त्यक्त्वार्कभौमेन्दुशनीनश्रुतिचित्राध्रुवाणिच ८

अमारिक्ताष्टमीश्चापिगतिक्रयमुखाःशुभाः । द्रव्यंलघुचरैर्योज्यंवृद्ध्यर्थंचरलग्नके ९

ऋणंभौमेनगृह्णीयाद्वद्धियोगेऽर्कसंक्रमे । धनिष्ठापञ्चकेहस्तेत्रिपुष्करद्विपुष्करे १०

भौमादिषु ऋणच्छेदंकुर्याच्चधनसंग्रहम् । बुधेधनंनप्रदेयंसंग्रहस्तुबुधेशुभः ११

शन्यर्कारैस्त्रिपादर्क्षैभद्रातिथ्यात्रिपुष्करः । मृगचित्राधनिष्ठासुतत्तिथ्याह्निद्विपुष्करः १२

शुभाशुभेषुत्रिगुणंद्विगुणंचफलंक्रमात् । मिश्रक्रूरेषुतीक्ष्णेस्वात्यांद्रव्यंनलभ्यते १३

दत्तंप्रयुक्तंनिक्षिप्तंचेत्याहनारदः ॥

अन्धंमन्दंचचिबिटंसुलोचनमितिक्रमात १४ गणनीयंरोहिणीभादन्धेनष्टंलभेतद्द्रुतम् १५

मन्देयत्नाल्लभेतैवचिबिटस्वक्षयोर्नहि ।

अन्विष्यंपूर्वतोन्धेषुमंदसंज्ञेषुदक्षिणे १६ प्रतीच्यांचिबिटाख्येषुसुलोचन उदग्दिशि ।

राजाभिषेकःश्रवणेध्रुवर्क्षेज्येष्ठामृदुक्षिप्र उदग्रवौस्यात् ।

त्यक्त्वाररिक्ताधिकचैत्ररात्रीश्चन्द्रेज्यशुक्राभ्युदयेशुभाय १ जलाशयानांखननंमघापुष्यध्रुवेमृगे ।

पूर्वाषाढानुराधान्त्यधनिष्ठाशतहस्तभे १ जलराशिगतेचन्द्रेलग्नस्थेचबुधेगुरौ ।

क्षौरंचौलोक्तनक्षत्रवारादिषुशुभंजगुः २ पञ्चमेपञ्चमेराज्ञांदिनेन्येपांयदृच्छया ।

श्मश्रुकर्मभवेन्नैवनवमेदिवसेक्वचित् ३ क्षारंभूतेरतंदर्शेवर्जयेच्चजिजीविषुः ।

क्षौरंनकुर्युरभ्यक्तभुक्तस्नातविभूषिताः ४ प्रयाणसमरारम्भेनरात्रौनचसंध्ययोः ।

श्राद्धाहप्रतिपद्रिक्ताव्रताह्निचनवैधृतौ ५ प्रशस्त्रंजन्मनक्षत्रंसर्वकर्मसुकीर्तितम् ।

क्षौरप्रयाणभैषज्यविवादेषुनशोभनम् ६ षष्ठ्यमापूर्णिमापातचतुर्दश्यष्टमीतथा ।

आशुसन्निहितंपापंतैलेषुस्त्रीभिगेक्षुरे ७ राजकार्यनियुक्तानांनराणांभूपजीविनाम् ।

श्मश्रुलोमनखच्छेदेनास्तिकालविशोधनम् ८ क्षौरंनैमित्तकंकार्यनिषेधेसत्यपिध्रुवम् ।

यज्ञेमृतौबन्धमोक्षेनृपविप्राज्ञयपिच ९ प्राग्वयस्कैःसपितृकैर्नकार्यमुण्डनंसदा ।

मुण्डनस्यनिषेधेपिकर्तनंतुविधीयते १० उदङ्मुखःप्राङ्मुखोवावपनंकारयेत्सुधीः ।

केशश्मश्रुलोमनखान्युदक्संस्थानिवापयेत् ११ आनर्तोहिच्छत्रःपाटलिपुत्रोदितिर्दितिःश्रीशः ।

क्षौरेस्मरणादेषांदोषानश्यन्तिनिःशेषाः ॥१२॥