२५ वस्त्रादिविचारः

अथवस्त्रादि वस्त्रभूषणविधिर्ध्रुवाश्विनीहस्तपञ्चकपुनर्वसुद्वये ।

पौष्णवासवभयोश्चसत्तिथौमन्दभौमशशिवासरान्विना १ अनुक्तेपीष्टदं वस्त्रंविप्राज्ञोत्सवलब्धिषु ।

ध्रुवपुष्यादितौयेषिद्धत्तेयावस्त्रभूषणे १ नप्राप्नोतिपतिप्रीतिस्नातिवारुणभेचया ।

पादुकासनशय्यादेर्भोगःसत्तिथिवासरे २ ध्रुवक्षिप्रमृदुश्रोत्रभरणीषुपुनर्वसौ ।

चेन्नव्यवस्त्रंमध्यंशेदग्धस्फुटितपङ्कितम्‍ ३ तत्त्याजेच्छान्तिकंकुर्यात्त्यजेदेवान्त्यभागयोः ।

विज्ञेयमेतच्छय्यायामास्तृतौपादुकास्वपि ४ सूचीकर्मानुराधाश्चिचित्रामृगपुनर्वसौः ।

वस्त्रं क्षाल्यंधारणोक्तेकालेबुधदिनंविना ५ भोजनंभाजनेरौप्यस्वर्णकांस्यादिनिर्मिते ।

कुर्यादमृतयोगेषुचरक्षिप्रमृदुध्रुवैः ६ स्याभ्दूषणानांघटनंचरक्षिप्रमृदूद्भवैः ।

शुभवारेरत्‍नवतांमिश्रभेपिरवौकुजे ७ इति वस्त्रादिविचारः ॥