२४ साधारणमुहूर्तविचारः

अथसाधारणमुहूर्तविचारः त्र्युत्तरारोहिणीध्रुवम्‍ मघाभरणीपूर्वा

त्रयंक्रूरम्‍ श्रवणत्रयपुनर्वसुस्वात्यश्चरम्‍ अश्विनीहस्तपुष्यंक्षिप्रम्‍ अनुराधारेवतीमृगचित्रंमृदु

कृत्तिकाविशाखेभिश्रमू मूलाश्लेषाज्येष्ठार्द्रास्तीक्षणम्‍ इति नक्षत्रसंज्ञाः ॥

यत्रनोक्तातिथिस्तत्रग्राह्यारिक्ताममांविना । वारोपियत्रनप्रोक्तस्तत्रार्काकिकुजान्विना १

चरमृदुक्षिप्रध्रुवमूलविशाखामघासुसकुजेशुभवारेभूकर्षणंहितम्‍

सूर्यत्यक्तनक्षत्रात्र्यष्टनवाष्टसु अशुभंशुभमशुभंशुभमितिहलचक्रम्‍

अत्रैवनक्षत्रे शनिभौमभिन्नवारेबीजवापःसस्यारोपणंच धान्यच्छेदश्च क्षीरवृक्षजन्यःखलमध्येस्तम्भः

धान्यानांमर्दनंज्येष्ठामूलमघाश्रवणरेवतीरोहिण्यनुराधाफल्गुनीद्वयेशुभम्‍ धान्यसंग्रहः

क्षिप्रध्रुवचरमृदुमूलेषुज्ञगुरुशुक्रेषुचरभिन्नलग्नेशुभः

ॐधनदायसर्वलोकहितायदेहिमेधान्यंस्वाहेतिमन्त्रंलिखित्वाधान्यागारेक्षिपेत्‍ तेनधान्यवृद्धिः

बुधमन्ददिनेनैवधनधान्यव्ययःशुभः । अद्यान्नवान्नंसद्वारेमृदुक्षिप्रचरेदिवा ॥