१९ तुलसीग्रहणकालः

तुलसीग्रहणकालः वैधृतौचव्यतीपातेभौमभार्गवभानुषु ।

पर्वद्वयेचसंक्रान्तौद्वादश्यांसूतकद्वये १ तुलसीयेविचिन्वन्तितेछिन्दन्तिहरेःशिरः ।

नैवच्छिन्द्याद्रवौदूर्वातुलसीनिशिसंध्ययोः २ धात्रीपत्रंकार्तिकेचपुण्यार्थमतिमान्नरः ।

द्वादश्यांचदिवास्वापस्तुलस्यवचयस्तथा ३ विष्णौश्चैवदिवास्नानंवर्जनीयंसदाबुधैः ।

अत्र दिवानिषेधाद्रात्रौस्नानादिषोडशोपचारैःपूजाकार्या दिवातुगन्धादिपुष्पाञ्जल्यन्ता एवोपचारा इति कमलाकराह्निके

विष्णोर्द्वादश्यांनिर्माल्यापनयनमपिनकार्यमितितन्त्रान्तरेस्मर्यते एतदपवादःपुरुषार्थचिन्तामणौ नारदीये

पञ्चामृतेनसंस्नाप्य एकादश्यांजनर्दनम् । द्वादश्यांपयसास्नाप्यहरिसायुज्यमश्नुते १

इति देवार्थेतुलसीछेदोहोमर्थेसमिधांतथा । इन्दुक्षयेनदुष्येतगवार्थंतुतृणस्यच १

तुलसीग्रहणमन्त्रः तुलस्यमृतजन्मासिसदात्वं केशवप्रिये । केशवाथविचिन्वामिवरदाभवशोभने २

जातिमल्लिकाकरवीराशोकोत्पलचम्पकबकुलबिल्वशमीकुशा एतानिसर्वदेवतानांविहितानि ॥

“तुलस्यमृतनामासि सदात्वं केशवप्रिये । केशवार्थ विचिन्वामि वरदाभव शोभने ॥”

अथ विहितप्रतिषिद्धत्वाद्वैकल्पिकानि पाटलाशमीपत्रंचदुर्गायाः कुन्दपलाशबकुलदूर्वाः

शिवस्य कुमुदतगरेसूर्यस्य तुलसीभृङ्गराजतमालपत्राणिशिवदुर्गयोः

अगस्तिमाधवीलतालोध्रपुष्पंविष्णुशिवयोः धत्तूरमन्दारौविष्णुसूर्ययोः इति विकल्पितानि ॥