१८ पुष्पादिविचारः

अपर्युषितनिश्छिद्रौःप्रोक्षितैर्जन्तुवर्जितैः ।

आत्मारामोद्भवैर्मुख्यैर्भक्त्यासंपूजयेत्सुरान्‍ १ त्यजेत्कीटावपन्नानिशीर्णपर्युषितानिच ।

स्वयंपतितपुष्पाणिमलाद्युपहतानिच २ मुकुलैर्नार्चयेद्देवमपक्केः कृमियुकफलैःपुष्पाभावेपत्रपूजापत्रालाभेफलैरपि ३

निवेदयेत्फलालाभे तृणगुल्मौषधीरपि । समित्पुष्पकुशादीनिब्राह्मणःस्वयमाहरेत ४

शूद्रानीतैः क्रयक्रीतैः कर्मकुर्वनपतत्यतः । लक्षपुष्पार्चनंक्रयक्रीतैरपि केचित्तु धर्मार्जितधनक्रीतैर्यःकुर्यात्केशवार्चनम् ।

नपर्युषितदोषोस्तिमालाकारगृहेषुच १ इत्याद्युक्तेर्मालाकारानीतै क्रयक्रीतैरपिपुश्पपत्रैः

पूजयन्ति नित्यपूजार्थपरोपवनादेरपिपुष्पादिग्रहेचौर्यदोषोन पूजार्थपुष्पादिनयाचेत

समित्पुष्पकुशादीनिवहन्तंनाभिवादयेत् । तद्धारीचैवनान्यानहिनिर्माल्यंद्भवेत्तयोः १

देवोपरिधृतंवामहस्तेऽधोवस्त्रेचधृतंजलेन्तःक्षालितंचपुष्पंनिर्माल्यम् वर्ज्यपर्युषितंपुष्पं वर्ज्यपर्युषितंजलम् ।

नवर्ज्यतुलसीपत्रंनवर्ज्यतीर्थजंजलम् १ प्रहरंतिष्ठतेजातीकरवीरमहर्निशम् ।

नैवपर्युषितंपद्मतुलसीबिल्वपत्रकम् २ कुन्दंचदमनंचैवागस्त्यंचकलिकातथा ॥

बिल्वादेरपर्युषितत्वदिनसंख्या बिल्वः ३० अपामार्गः ३ जाती १ तुलसी ६ शमी ६

शतावरी ११ केतकी ४ भृङ्गराजः ९ दूर्वा ८ मन्दारः १ पद्मं १ नागकेसरः २ दर्भाः ३०

अगस्त्यः ३ तिलः १ मल्लिका ४ चम्पकः ९ करवीरं ८ एतेषामेतद्दिनोत्तरं पर्युषितत्वम् ॥